SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ विषयाः २८ एतत्मतिविधानं स्थिरवादिनः, क्षणिकेऽपि स्थिरवादिना क्रमयोगपद्याभ्यामर्थ क्रियाविरोधो वक्तुं शक्य एव, तद्भावना च कृता, क्षणिकवाद्युपन्यस्तदोषाणां क्षणिकवादेऽप्यासअनं, तदोषोद्धारप्रकारो यः क्षणिकवादिनः सोऽक्षणिकवादिनोऽपीति निरूपणम् । १२८-११ २९ क्षणिकपक्षे युगपत्कार्यकारित्वं न संभवतीत्युपसंहृत्य तत्र क्रमिककार्यकारित्वमपि न सम्भवतीति भावितम् । १२९-१२ ३० क्षणिके नानादेशब्यासिलक्षणस्य देशक्रमस्य नानाकालव्याप्तिलक्षणस्य कालक मस्य न सम्भवः अत्र “यो यत्रैव स तत्रैवेति" प्राचीनपद्यसंवादः। १२९-१४ ३१ सादृश्यस्याक्षणिकस्याभ्युपगमे क्षणभङ्गवादाऽपगम इत्यत्र “अथापि नित्यं परमार्थसन्त" इति न्यायमञ्जरीवचनसंवादः। १२९-२८ ३२ विरुद्धेन सवेन न क्षणिकत्वसिद्धिरिति निगमितम् । ३३ स्थिरपक्षे समर्थे क्षेपायोग इति विलम्बो न भवेदिति क्षणिकवादिदत्तदोषनिरसनम् । १३०-३ ३४ न सहकारित्वं किन्तु सहितकारित्वमिति बौद्धाभ्युपगमस्य निरासः। १३०-१० ३५ कारणस्य स्वरूपलाभार्थ सहकार्यपेक्षेत्यादि विकल्प्य यदूषणं पूर्व बौद्धेनोक्तं तत्प्रतिविधानम् । १३०-१४ ३६ तैस्सह करोतीत्यस्य विशेषणत्वमाश्रित्य स्थैर्यपक्षे यद्बौद्धोक्तं दूषणं तद्वौद्धाभ्युपगतक्षणिकपक्षेऽपि दर्शितम् । ___ १३०-१८ ३७ तैस्सह करोति तैर्विना न करोतीति योऽस्य स्वभावः स पश्चादस्ति न वेति विकल्प्य स्थिरपक्षे पौद्धोक्तं दूषणं क्षणिकपक्षेऽपि समानमिति भावितम् । १३०-२४ ३८ निर्विशेषणत्वेन शुद्धस्वरूपधर्म्यस्त्येवेत्यादिसमाधानं तुल्यम् । १३१-३ ३९ उक्तदिशा द्वयोरप्येकान्तवादिनोः मुन्दोपसुन्दन्यायेन प्रतिहतत्वान्नैकोऽप्येका न्तपक्षो युक्तः, किन्तु मिथः सापेक्षभावेन स्याद्वादपक्ष एव युक्त इति । १३१-७ ४० उक्तमर्थमभिहितं “य एव दोषाः किल नित्यवादे" इति पद्येन हेमसरिणा । १३१-१२ ४१ मिथः सापेक्षभावेन स्याद्वादपक्षस्य युक्तत्वे हेतुरुपदर्शितः। ४२ स्वभावभेदस्य काल्पनिकत्वेन विविक्तव्यवहारस्य काल्पनिकत्वमित्युपगमे "सर्व खल्विदं ब्रह्म" इति वदतो वेदान्तिनो विजय आपादितः । १३१-२० ४३ एकान्तद्रव्यमात्रवादस्य निरासः। १३१-२७ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy