________________
पम्मति० काम ३, गा• ५४. म द्वितीयः, ययोरेकक्षणवर्तिनोरेकाधारत्वं तयोः कार्यकारणभावाभावात् । काल्पनिकैकाधारत्वाऽम्युपगमे तु शरीरबुद्धयाघोरप्येकदेशताऽभिमानात्कार्यकारणभावाभिमानाचोपादानोपादेयभावप्रसङ्गस्स्यात् । तदेवं बौद्धमते उपादानोपादेयभावलक्षणस्यैवाऽसङ्गतेनॊक्तं युक्तमिति पूर्वोक्तप्रत्यभिज्ञया पूर्वापरप्रतीत्योरेकककत्वसिद्धेराऽऽत्मनो नित्यत्वाभ्युपगम एव श्रेयान् । तथा बौदागमोऽपि नित्यात्मप्रतिपादकोऽस्ति, स चायम्
"इत एकनवते कल्पे, शक्त्या में पुरुषो हतः।
तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवा!॥१॥" तथा"कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनि गर्हणेन ।
प्रकाशनात्संवरणाच तेषा-मत्यन्तमूलोद्धरणं वदामि ॥१॥" इत्येवमादिः । गौरवभीत्याऽधिकं यदत्र नोक्तं तदस्महन्धखण्ड खाद्यकल्पलतिकातोऽत्रसेयम् , सविस्तरपूर्वकृतक्षणिकत्वपक्षनिरासेनाप्यात्मनो नित्यत्वं बोद्धव्यम् ।। एतेन भवत्वास्मनो नित्यत्वम् , तथापि स पुष्करपलाशवनिर्लेप इति न कर्ता, प्रकृतेरेव कर्तवादित्यर्थक 'न कुणइ' इति तृतीयस्थानमपि निरस्तम्, चेतनोऽहं करोमीत्यनुभवेनात्मन एवं कर्तृस्वात् , तथाभ्युपगम एव य एव शुभामशुभा वा प्रवृतिं करोति स एव शुभमशुभं वा कर्म करोति स एव च सुखदुःखादिकं स्वर्गनरकादौ तत्फलमनुभवतीति प्रतीतिरप्युपपद्यते, अन्यथाऽन्यः कर्ताऽन्यश्च मोक्तेत्यसमञ्जसापत्तिस्स्यात् । 'प्रकृतिः करोति पुरुष उपके इति पुरुषे भुजिक्रिया या समाश्रिता साऽपि न सिक्ष्यति, तस्या अपि क्रियास्वात् , य एव क्रियां करोति स एव तत्फलमुपभुत इत्यनुभवसिद्धस्य क्रियाकर्तवैव भोक्तृत्वस्याऽभ्युपगमश्रेयान् । अथ मुद्राप्रतिबिम्बोदयन्यायेन भोग इति चेत्, एतत्तु निरन्तराः सुहृदः प्रत्ये. ज्यन्ति, वाङ्मात्रत्वात् , प्रतिबिम्बोदयस्यापि च क्रियाविशेषत्वादेव । तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद् यत्किञ्चिदेतदिति । ननु कर्तृत्वाश्रयो न चेतनो जन्यधर्माश्रयत्वाद् घटवदिति बाधकसत्वाचेतनोऽहं करोमीति चैतन्यांशे भ्रम इति चेत् , कुत्यंशेऽपि स किं नेष्यते, तत्रापि बुद्धिः कर्तृत्वाभाववती जन्यत्वाद् घटवदिति बाधकस्य सत्त्वात् , चेतनत्वकर्तृत्वयोस्सामानाधिकरण्यप्रतीतावपि चेतनस्याकर्तृत्वे तस्मिन् सुखदुःखौ न स्यातामिति सुखार्थ दुःखोच्छेदार्थच न कोऽपि प्रवृत्ति कुर्यादिति निरीहं जगआयेत, न च निरीहं जगदिति चेतनाख्यात्मैव कति सिद्धम् ॥ ३॥
वेदान्तिमतमाश्रित्य 'ण वेएइ' न वेदयते इति तुरीयं स्थानं यदुक्तं तदपि न युक्तम् , जगतोऽनेकान्तस्वरूपस्य पारमार्थिकसतो निराकर्तुमशक्यत्वेन ब्रह्मवाद्वितीयं सत्, प्रपश्चा कल्पितोऽविद्या दोषविधया तत्र कारणम् , ब्रह्मैवाविद्यालक्षणदोषवशाजगदूपेणावभासते, ब्रमेव सर्व, मधभिन्न किश्चित्पारमार्थिकं नास्तीत्यादिरूपाया वेदान्तिप्रक्रियाया अयुक्तत्वेना.
"Aho Shrutgyanam"