________________
सम्मति काण्ड ३, गा० ५४
३५७
नास्ति, तदुत्तरभवीयसंज्ञाभावादिति । भूतचैतन्यादिवादस्तु पूर्वमेव निरस्त इत्यत्र नाधिकं विस्तृतभयादुच्यते |१| एतेन भवतु पूर्वोक्तयुक्त्वाऽऽत्मसिद्धिस्तथापि स क्षणिकज्ञानसन्तामात्मैव न तु तदाश्रयत्वेन तद्व्यतिरिक्तो नित्य आत्मास्तीत्यथर्कम् 'ण निधो ' इति द्वितीयस्थानमपि बौद्धानां निरस्तम्, नित्यात्मनोऽभावे योऽयं स्वसंविदितः सुखदुःखानुभवः स कस्य भवतीति वाच्यम्, आलय विज्ञानस्कन्धस्यायमनुभव इति चेत्, न, तस्यापि क्षणिकत्वात् ज्ञानक्षणस्य चातिसूक्ष्मत्वात् सुखदुःखानुभवाभावप्रसङ्गः, क्रियाफलवतोच क्षणयोरत्यन्तभिन्नत्वात् कृतनाशाऽकृताभ्यागमापत्तिरिति, आलयविज्ञानसन्तान एकोऽस्तीति चेत् तस्यापि सन्तानिव्यतिरिक्तस्याभावाद् यत्किश्चिदेतत् भावे वा पर्यवसितं विवादेन, नामान्तरेणात्मन एव स्वीकारात् । कः पुनरात्मस्थैर्यसाधकन्यायप्रयोग इति चेत्, उच्यते, परप्रतीतिः पूर्वप्रतीत्याश्रयाश्रिता पूर्वप्रतीत्याश्रये साक्षात्क्रियमाणत्वात् पूर्वप्रतीतिवदिति । न च हेत्वसिद्धिः, योऽहं घटमद्राक्षं सोऽहं तं स्पृशामि स्मरामि वेति प्रत्यभिज्ञया पूर्वप्रतीत्याश्रये उत्तरप्रतीतेः साक्षात् क्रियमाणत्वात् । सा च प्रत्यभिज्ञा कर्तृभेदेऽनुपपद्यमाना पूर्वापरप्रतीत्योरेककर्तृकत्वं व्यवस्थापयति, प्रत्येतव्यादनन्यस्यैव प्रत्येतुरहमास्पदत्वात्, न हि भवति चैत्रोऽहं यमद्राक्षं मैत्रोऽहं तं स्पृशामि स्मरामि वेति प्रतिसन्धानम्, अथ पूर्वापरप्रतीतीनामेककर्तृकत्वनिश्चयोऽपि तासामुपादानोपादेयभावेनैवोपपद्यते, तथा चोक्तप्रत्यभिज्ञानेन द्रष्टुः पूर्वज्ञानस्याभेदो घटविषयकस्पार्शनप्रत्यक्षात्मके घटविषयक स्मरणात्मके वा स्मर्तर्युतज्ञाने आरोप्यते, तद्बलादेव चानुभवितरि पूर्वज्ञाने स्पार्शनप्रत्यक्षवत्रं स्मरणवचं वाऽऽरोप्यत इत्येवं दिशा स्थैर्याभावेऽपि प्रत्यभिज्ञानस्यो - पपत्तिरिति चेत्, मैवम्, एकजातीयत्वे सति येन यदुत्पन्नं तयोरुपादानोपादेयभाव इति लक्षणस्यैव भवद्भ्युपगतस्याऽसङ्घट्टमानत्वात्, तथाहि - तत्रोत्पत्तिस्साक्षाद्विवक्षिता, किंवा परंपरयाऽपीति विकल्पद्वयम्, आद्यपक्षे यत्र चैत्रस्य प्राग् घटानुभवः, अन्तरा ज्ञानान्तरं कालान्तरे पुनर्घटस्मृतौ यं घटमद्राक्षं तमेव स्मरामीत्याकारकं प्रतिसन्धानं तत्रापि व्यवहित. योरेकसान्तानिकयोर्घटानुभवघटस्मृत्योरुपादानोपादेयभावाभावप्रसक्त्या प्रतिसन्धानं न स्यात्, द्वितीयपक्षे च शिष्याचार्यधियामप्युपादानोपादेय भावप्रसङ्गस्यात्, तथा च तत्रापि कदाचित् प्रतिसन्धानापतेः । अथ तत्र शिष्याचार्यविवक्षाप्रयत्नादिना विजातीयेन व्यवधानाम तत्प्रसङ्गः, सति सम्भवे सजातीयव्यवधानस्यैव विवक्षितत्वादिति चेत्, तर्हि एकसन्तानान्तःपातिनामपि विजातीयविवक्षादिना व्यवधानं केन निवारणीयम्, तथा च तत्रापि प्रतिसन्धानं न स्यात् । अथैकाधारत्वे सति कार्यकारणभाव एवोपादानोपादेयमात्र इति शिष्याचार्यधियां न प्रतिसन्धानप्रसङ्ग इति चेत्, तदप्यसङ्गतमेव, यतस्तत्रैकाधारत्वं किमेकदेशवृत्तिस्वरूपम्, किं बैककालवृत्तित्वात्मकम्, नाद्यः, यतो ययोः पूर्वापरक्षणवर्तिनोः कार्यकारणarataयो नैकदेशवृत्तित्वम्, आधारस्य भवन्मते क्षणिकत्वेन क्षणद्वयावस्थायित्वाभावात्,
"Aho Shrutgyanam"