________________
यथा प्रतिपाद्य दृष्यति तद्वितीयधर्माक्रान्तं स्यात्पदगर्भ यद्यदर्शयिष्यत् पूर्वपक्षवादी तदा न केनापि जेतुं शक्य इति प्रदर्शितम् ।
३७४-१६ ५९-१ एतत्स्पष्टीकरणार्थतया 'एयन्तासन्भूयं' इत्येकोनषष्ठितमगाथाऽवतारिता। ३७४-२८ २ उक्तगाथाविवरणं, एकान्तासद्भूतमनिश्चितं च सद्भुतं बदन वादी लौकिक
परीक्षकाणां निन्दामार्गमामोति, ततः परार्थानुमित्यर्थं निश्चितान्यथानुपपन्न एव हेतुः प्रयोक्तव्याः, प्रतिज्ञादिकं यदपेक्षयाऽनुपयुक्तं यदपेक्षयोपयुक्तं तत्प्रदर्शितम् , तत्र देवसविचनं च प्रदर्शितम् ।।
३७५--१ ६०-१ अध्यक्षादिप्रमाणसिद्धत्वेनाबाधितस्यानेकान्तात्मकवस्तुनः प्ररूपणैव सन्मार्ग
इत्युपसंहारार्थतया 'दव्वं खित्तं कालं' इति षष्ठीतमगाथाऽवतारिता। ३७५-१४ २ उक्तगाथाविवरणम्, द्रव्यक्षेत्राद्यष्टभावानाश्रित्य समानरूपतया भावानां स्याद्वादात्मिका प्ररूपणा परमार्थवृत्त्या वस्तुतत्त्वसाधिका ।।
३७५-१८ ३ द्रव्यादीनऽष्टभावान्प्रत्येकं स्वरूपत उपदर्य तदपेक्षया समानरूपतया निरूपणा ___ सन्मार्गः, तत्र हेतुरुपदर्शितः।
३७५-२२ ४ अनुभवसिद्धमप्येकानेकात्मकं वस्तु प्रतिक्षिपन् वैशेषिको नैयायिकोवा चित्रपटे, चित्रेकरूपमपि कथमभ्युपेयादित्युपदर्य तत्र नव्यनैयायिकानां प्राचीननैयायिकानां
च मन्तव्य विविच्य दर्शितम् , विचारश्चाभिनवः प्रकटितः।। ३७५-३० ५ तत्र मतद्वयस्य नानारूपमात्राभ्युपगमचित्रकरूपमात्राभ्युपगमपरस्यानुभवविरुद्धत्वं
शुक्लनीलादिनानारूपाणां चित्ररूपस्यैकस्य च चित्रपटेऽभ्युपगमो युक्त इति नानारूपसमानाधिकरणचित्ररूपमेकमित्यभ्युपगन्जैनमतस्य प्रपश्चनम् । ३७६-८ ६ चित्रपटे एकं चित्ररूपमेव, शुक्लायेकैकावयवावच्छेदेन चक्षुःसन्निकर्षे रूप.
प्रत्यक्षं भवत्येव, चित्रत्वप्रत्यक्षं तु परम्परयाऽवयवगतनीलेतररूपपीतेतररूपादिग्रहस्य तत्कारणतयाऽभ्युपगतस्याभावान भवति, अत्रोदयनमतसंवाद इति नैयायिकपूर्वपक्षः।
३७७---६ ७ उदयनाचार्यानुयायिपूर्वपक्षप्रतिविधान जैनस्य, तत्र चित्राक्यविनि युक्तिवलामानारूपसद्भावं प्रसाध्य शुक्लावयवावच्छेदेन चक्षुस्सन्निकर्षे तत्र शुक्लरूपस्यैव प्रत्यक्षमिति दर्शितम् ।।
३७८-२ ८ अवयविनि चित्रे एकस्यैव चित्ररूपस्याभ्युपगन्ता यदि कारणविशेषाश्रयणेन
शुक्लावयवावच्छेदेन चक्षुस्सन्निकर्षे चित्रत्वप्रत्यक्षाभावं चित्रव्यणुकप्रत्यक्ष चोपपादयेत्तदा वरं कलसेम्वेव नानारूपेषु व्यासज्यवृत्तिचित्रत्वं, तस्य समानाधि
"Aho Shrutgyanam"