________________
७०
८ गुणस्य सर्वथा द्रव्याद्भिनत्वेऽवयवद्वयोत्कृष्टगुरुत्वतोऽवयविन्युत्कृष्टतरगुरुत्वोपलब्धिप्रसङ्ग उपपादितः ।
९ वस्तु द्रव्यपर्यायात्मकं तत्र द्रव्यमनुगतं, व्यावृत्तच पर्यायः क्रमभाविसहभाविभेदेन द्विविधः, तत्र क्रमभाविनः पर्याय इति सहभाविनो गुण इति संज्ञेति निगमितम् ।
१० उक्तार्थे महावीरस्तवस्य 'स्वद्रव्यपर्ययगुणानुगता हि तत्ता' इति श्लोकटीकावचनसंवादो दर्शितः ।
२८०-३
२८०-१०
२८०-१६
११ आत्मनि क्रमभाविपर्यायाः सुखादयः, सहभाविपर्याया ज्ञानादय इत्यत्र तत्वालोकवार्तिकटीका संवाद : प्रमाणनयतत्वालोकालङ्कारसूत्र संवादश्च दर्शितः । २८०-१७ १२ गुणपर्याययोः कथञ्चिद्भेदमभिप्रेत्यैव " गुणपर्यायवद्द्रव्यम्” इति सूत्रं संन्धम् । २८०-२५ १०- १ द्रव्य पर्यायाश्चेत्येवं विभागो युक्तो न तु द्रव्यं गुणः पर्यायश्चेति, गुणस्य पर्यायाद् भिन्नत्वे तृतीयो गुणास्तिकनयोऽपि प्रभूक्तः स्यादिति प्रतिपादन - परतया दशमी गाथाऽवतारिता ।
२८०-३० २ ' दो उण णया भगवया' इति गाथास्पष्टीकरणमवतरणसमानार्थकम् । २८१-५ ११ - १ भगवता गुणार्थिकनयो न नियमितः किन्तु पर्यायार्थिक एवेत्यर्थकतया
"जं च पुण अरिया" इत्येकादशी गाथाऽवतारिता तथैव व्याख्याता च । २८१-१० १२ - १ " वण्णपजवे हिं” इति सूत्रे पर्यायशब्देन गुण एव किं नोक्तः स्यादित्याशङ्कासमाधानपरतया " परिगमणं पजाओ" इति गाथाऽवतारिता । २ उक्तगाथाविवरणम्, तत्र सहभाविभिः क्रमभाविभित्र भेदैः परिच्छेदः पर्यायः, अनेकरूपतया वस्तुनो ज्ञानं गुण इत्येवं तुल्यार्थी गुणपर्यायशब्दौ तथापि भगवतः पर्यायार्थिकनयद्वारेणैव देशनेति पर्यायशब्देनैवाभिधानं गुणपर्यायशब्दयोयुत्पत्तिनिमित्ततौल्येऽपि प्रवृत्तिनिमित्तभेदान्न पर्यायशब्दत्वमिति । १३ - १ पर्यायशब्दः क्रमभाविधर्मवाचक एव, गुणशब्दच सहभाविधर्मवाचक एवेति गुणार्थिकनयोऽप्यर्थाद्भगवतोपदिष्ट एवेत्याशङ्कापरतया 'जंपंति अस्थि समये' इति त्रयोदशीगाथाऽवतारिता ।
२८२-१०
"Aho Shrutgyanam"
२८१-१७
२८१-२०
२ उक्तगाथा विवरणं, तत्र "एगगुणकालए दुगुणकालए" इति सिद्धान्ते गुणशब्द. प्रयोगात् रूपादिपरिणामो गुणविशेष इति गुणार्थिकनयोऽपि विद्यत इति शङ्का । २८२-१६ १४ - १ तत्प्रतिविधानपरतया 'गुणसहमंतरेणावि' इति चतुर्दशी गाथाऽवतारिता । २८२ - २३