________________
२ उक्तगाथाविवरणम् , तत्र स्वस्मिन् स्वयं कोपोत्पादकः पुरुषः परभवप्रादुर्भावपरिणतिविशिष्टस्य जीवस्य कारको भवतीति पूर्वोत्तरयोस्तयोः कार्यकारणात्मनोः कथश्चिमेद इत्युपपादितम् ।
२७७-१ ३ सरागस्यैवात्मनो जन्मेति पूर्वोत्तरभवानुयायिन एकस्यैवात्मनो भावात्कथं भवभेदेन
भेद इति प्रश्नस्य प्रतिविधानं, विशेषणभेदाद्विशिष्टयोर्भेदोऽपि मुख्यवृत्त्येति साधितम् ।
२७७-८ ४ एकस्यापि जीवस्य स्वभावभेदाद् भेद उपपादितः ।
२७७-१७ ५ परभवजीवात्कोपपरिणतिमापद्यमानस्य जीवस्य सर्वथा भेद एवास्त्विति शङ्का
प्रतिविधानं, स्वात्मनैव स्वात्मनि कोपपरिणत्युत्पत्तिरिति निश्चयनयमतमेतत् । २७७-२१ ६ अन्यस्मिन् जीवे कोपमुत्पादयन् पुरुषस्तस्य कारक इतिव्यवहारनयेन व्याख्यान्तरम् ।२७७-२८ ८-१ द्रव्यगुणयोः कथञ्चिद्भिन्नाभिन्नत्वमसहमानानां मतस्योत्थापकतयाऽष्टमी गाथाऽवतारिता।
२७८-१ २ "रूवरसगन्धफासा" इत्यष्टमगाथाविवरणम् , तत्र द्रव्याद् गुणानामसमानग्रहणलक्षणत्वं भेदप्रयोजकमुपवर्णितम् ।
२७८-५ ३ द्रव्यगुणयोरसमानलक्षणप्रतिपादकं वैशेषिकसूत्रद्वयमुपदर्शितं,भेदसाधकमनुमानञ्च ।२७८-१२ ९-१ तन्मतनिराकरणपरतया "दूरे ता अण्णत्त" इति नवमीगाथाऽवतारिता । २७८-२० २ "दूरे ता अण्णत्" इति गाथाविवरणम् , गुणगुणिनोरेकान्तेन भिन्नत्वमसम्मा
वनीयं, गुणशब्दः पर्यायभिन्ने गुणे पर्याये वा प्रवर्तत इति परीक्षा कार्या । २७८-२३ ३ भिन्नप्रमाणग्राह्यत्वभिन्नलक्षणस्वाभ्यां द्रव्याद् भिन्ने सिद्धे गुणे गुणशब्दः प्रयुज्यत इति किं तत्र परीक्षाकरणेनेति प्रश्नपतिविधानम् ।
२७८-२९ ४ रूपवान् घट इत्यादिप्रतीत्या भेदे मतुष्प्रयोगाद् गुणगुणिनोरेकान्तभेदसिद्धिरित्याशङ्का निराकृता, नित्ययोगेत्र मतुविधानम् ।
२७९-३ ५ एकान्तभेदे सम्बन्धायोगात् मतुष्प्रत्ययाऽर्थस्य नित्यसम्बन्धस्य कथञ्चिद्भेदाभेदात्मकस्यैव मानमित्युपपादितम् ।
२७९-७ ६ गुणो द्रव्याद् भिन्न इत्यनुमाने धर्मिणो गुणस्य पर्यायात्मकत्वतदनात्मकत्वविकल्पेन बाधासिद्धयादिदोषप्रदर्शनम् ।
___ २७९-१४ ७ द्रव्यं गुणादिभ्यो भिन्नं गुणवत्त्वादित्यनुमान रूपादेरपि संख्यात्मकगुणवत्त्वेन व्यभिचारतो व्युदस्तम्, रूपादौ सङ्ख्यापतीतेन्तित्वमपाकृतम्, तत्र वैशेषिकाभिमतमुभाव्य व्युदस्तम् ।
२७९-१६
"Aho Shrutgyanam"