________________
(८१) करोति । अङ्गुल्यान्तर्गतं नक्षत्रशुभकर्मणि नादरणीयं अमुल्यग्रेजापवत् फलदायित्वाभावात् । तले नक्षत्रं उच्चाटनकृतपश्चिमानक्षत्रं क्लेशजालेन कार्यकरं याम्यमं रोगकारकमिति न शुभम् ॥ १५ ॥ इति श्रीहस्तसजीवनवनव्याख्यायां सामुद्रिकलहाख्यायां नक्षत्रदर्शनम्
अथ प्रथमं वर्षेषु शुभाशुभज्ञानाय ग्रहस्पष्टीकरणेन भावचक्ररूपं मेषादि राशिचक्रदर्शनम् ।।
जागर्ति येन नाम्नायस्तद्राशिर्यत्र पर्वणि । तारादिर्मेष राश्यादि स्तत आरभ्य गण्यते ॥ १६ ॥ ज्ञेया स्तन्वादयो भावास्ततो द्वादश लग्नजाः ।।
तेषूधरेखा सशुभो ग्रहः क्रूरस्तथान्यथा ॥ १७॥ जागतीति । ज्ञेया इति १६-१७ श्लोकद्वयसंयुक्तार्थम् । यस्य जन्मपत्रिका नस्यात् तस्य तन्वादिभावज्ञानं सामान्येन इत्थं परिज्ञेयम् । जन्मक्षमृक्षमित्याहुमुक्षं चात्रदण्डवत् यस्य जन्म नजानीयात् तस्य नाम्ना विधियत इति कथनात् राशिमेव पुरस्कृत्य भावाविचार्याः । लग्नादिवराशे रपि तदवबोधात् जन्मज्ञानेनामराशेरेवौचित्यं अन्यथापि गृहे च नगरे ग्रामे वाणिज्ये स्वामिसेवने नामराशिप्रधानत्वं जन्मराशिं न चिन्तयेत् , इत्यादिना नरपतिग्रन्थादौ तत् प्राधान्यदर्शनात् ताराया आदिमूलपर्व तस्मात् , अग्नितच्चस्थानतया अल्पभोगतया लग्नेषु तथा गूह्यभागप्रत्यासत्त्या सन्ध्यारूपेण रानी रागाधिक्याच्चारुणवर्णमेषप्रभृतिगणनं प्रागुक्तमेव तेन यस्य वृषराशिस्तस्य ताराद्वितीय भागात् प्रारभ्यगणनं मिथुनराशेस्तृतीयांशादिति तेषु भावेषु यत्र ऊर्ध्वरेखाशुभोग्रहः । आयतादीघरेखासत्वशुभस्तद्भावविनाशात् ऊर्ध्वरेखायाः शुभलक्षणता आयताया निषेधाङ्कत्वेनाशुभत्वं च लोकप्रतीतमेव पूर्णदृष्टिरपिग्रह तुल्यैव यदुक्तं विरुद्धपूर्णदृशापश्यतस्मादेवफलं ग्रहः विधात्यन्यथाज्ञेयं फलं दृष्टयमनुमानतः । इति नरपतिग्रन्थे मेषराशि
१ अङ्गुष्टतलयो रेकरूपतयाकाशस्थानात् ।
"Aho Shrutgyanam"