________________
( ८० )
ठाइपंचयं सिद्धाचित्ता साईसाहुं इति पूर्वानुसाराद्व्यवस्थितो न्यासः सामान्येन अत्र मूलस्य गौर्य्यां न्यासात् ' बहिर्मुलोभितरे अभि इति ' सिद्धान्तेऽपि मूलं दक्षिणस्यां चरतीति सावित्री दक्षिणाअभिजिन्न्यासादुत्तरामध्यायुक्तैव ।। १२ ।। तद्विशेषमप्याह
वीक्ष्यते यत्र नक्षत्रे हस्तस्तद्गर्भकस्थितम् ।
प्राग् दक्षिणकरं तेषु तारा त्रयत्रयं भवेत् ॥ १३॥ काञ्चन्यादेः पञ्चदशभानि यत्रात्मनामभम्
तत् फलं प्रष्टुरादेश्यं स्थानरेखादि योगतः ॥ १४ ॥ वीक्ष्यत इति । यन्नक्षत्रे हस्तस्य वीक्षणं तद् हस्ततमध्ये दे आरभ्यः प्राग् दक्षिणादिक्रमः न चैवं हस्तनक्षत्र एव सन्नियमात् यस्य तदेवात्मनं तस्य दिग् ज्ञानं कृत इति शङ्कथं, पञ्चशाखत्वेन प्राक् पञ्चनक्षत्राणां व्याख्यानात् । क्रमोऽयं सृष्टिरूप दक्षिण करे तथैवन्यासात् सर्वत्रनक्षत्रत्रयं त्रिपर्वण्या एव नियतत्त्वात् स्वरोदयेऽपि प्रतिपदादि यह योयो वात्सायनेऽपि पक्षनि दीर्घे हेमन्ते नित्यमन्यर्तुषु त्र्यहादेव व्यवस्थानं अङ्गुल्यः पञ्चहस्ततलेऽपि चतस्त्रोदिशः पञ्चमं मध्यस्थानमिति पञ्चधाव्यवस्थया सर्वं पञ्चविधं प्रमेयमत्र ज्ञेयतयावतरतीति सूचयति । तेनाकरादिस्वराः पञ्चब्रह्माद्याः पञ्चदेवतः । निवृत्याद्याः कलाः पञ्चइच्छाद्यं शक्तिपञ्चकम् ॥ १ ॥
रुद्राद्याश्चक्र भेदाच घराद्यंभूतपञ्चकम् । गन्धादिविषयास्ते च कामत्राणा इतीरिताः ॥ २ ॥
इत्यादि नरपतिग्रन्थोदितं सकलं ज्ञेयम् । अग्रे अ इ उ ए ओ इति स्वराणां यन्त्रस्य च वक्ष्यमाणत्वात् । स्थानेति धातुमूलादिरूपमेषादिराशिरूपपर्व संबन्धात् रेखासम्बन्धाच्च आदिशब्दात् ग्रहादियोगोऽपि ग्राह्यः ॥ १४ ॥ सामान्यात करदर्शयितुर्वज्यनक्षत्राण्याह
करजांचागताधिष्ण्यं तले याम्यातले स्थितम् ।
तत्र स्थितं शुभं न स्यात् शेषस्थाने शुभं स्मृतम् ॥ १५ ॥
" Aho Shrutgyanam"