________________
(८२) कस्य मध्यामूलांशे स्त्रीसंख्यासुखादिविचार्य एवं सर्वे भावा: न चैवं रेखावैयर्थ्य तासामेव फलस्पष्टीकरणात् ॥ १६ ॥
भावमानं स्पष्टीकृत्य ग्रहस्पष्टीकरणार्थमादौ चन्द्रचक्रमाह-राशिचके तस्यैव मुख्यत्वात् ।
अश्विन्यादीनिऋक्षाणि प्रत्येकं सप्त योजयेत् ।
कनीनिकातः प्रारभ्य यत्र हस्ते क्षणस्यभम् ॥ १८ ॥ अश्विन्यादीति । इष्ट नाड्योहताधिक्यैः षष्ठिभागाप्त शेषके अश्विन्यादीन्दुभुक्ते न युक्ते तत्कालचन्द्रमाः ॥ १ ॥
इति नरपतो प्रस्तारचक्रे तत् कालचन्द्रे अश्विन्यादि नक्षत्रगणनातू, अत्रापि तदादिक्रमः । तत एव तारायां नियोग मुद्रापरिधानं चन्द्रचिन्हें प्रत्येकं संयोजयेत् । अङ्गुल्या मूलपर्वणि नक्षत्रद्वयं मध्यभागे नक्षत्रत्रयं मूर्तीशे नक्षत्रद्वयमेव सप्तनक्षत्राणि स्थूलापेक्षया भावयेत् सक्ष्मविचारे तु प्रतिपर्वचत्वारिंशदुत्तरशतधटयो योज्या । नक्षत्राणां न्यूनत्वेऽधिकत्वे वा तदपेक्षयैव । एवं च चन्द्रन्यासः प्रायस्तिथि पत्रापेक्षयैव जायते । भङ्गयन्तरेण चन्द्रचक्रकथनं सामुद्रिकस्य निमित्तान्तरत्वात् तत एवकृत्तिकायाविंशघटिका यावन्मेषे चन्द्रोदेयो ज्योतिः शास्त्रे तु पञ्चदशघटिकाया वदिति विशेषः । इयदन्तरं तु नक्षत्रदृष्टया मूखेनापूर्यम् ॥ १८ ॥ एतदेवाह
प्राप्तं प्रष्टुःसराशिस्यान्मेषादिव्यंशकः क्रमात् । - चन्द्रस्तत्रैव विन्यस्य चतसृष्पगुलिष्वपि ॥ १९ ॥
प्राप्तमिति । न चैवं जन्मराशिनाम राशिहस्तदर्शनदिनराशिश्चेति राशित्रयसाकर्यमिति शङ्कथं, नामराशेरेवाधिकारात् स एव राशिः । अत्र तु राशिशद्वेन चन्द्रस्थानमेवोच्यते । एवं च दिननन्द्र एव हस्तदर्शने विचार्य इत्यायातं शुभाशुभविचारे दिनचन्द्रस्यैव मुख्यतया फलदायित्वात् । अन्यथा शोमने हस्तनक्षत्रे इत्यादिना नक्षत्रप्राधान्योक्तिर्व्यर्थास्यादिति ।
"Aho Shrutgyanam"