________________
(८३) यथा कश्चिद्विवाहादिमाङ्गल्यकार्ये जन्मराशिप्राधान्यं तस्मिन् ज्ञाते ऽपि देशाधर्थे नामराशिर्विचायते । तथा हस्तेक्षणे चन्द्रःकस्मिनू भवने इति ज्ञेये दिननक्षत्रस्थानमेव राशिव्यपदेशाह न चैवं चन्द्रत्रयसाय नरपत्यादौ राशिचन्द्र १ उदय चन्द्र २ मासचन्द्र ३ पक्षचन्द्र ४ दिनचन्द्र ५ घटिकाचन्द्र ६ तत्कालचन्द्रा ७ दिभेदैः सप्तधा चन्द्रस्थान विमर्शविदस्याप्पदोषात् । अत्र अश्विन्यादि सप्तनक्षत्र व्यवस्था जैनसिद्धान्तमताद् यदुक्तं- समवायाङ्गुवृत्तौ- अश्विन्यादीनि दक्षिण द्वारिकाणि पुष्पानीन्यपर द्वारीकाणिस्वात्या दीन्युत्तरद्वारिकाणि अभिजिदादीनि सप्तनक्षत्राणि पूर्वद्वारिकाणीति नरपतिग्रन्थेऽपि अश्विन्यादीन्दुभुक्तानि भानिषष्टिहतानिच स्वभुक्तनाडि संयुक्तं द्विध्नं २ नन्दा हतं त्रिधा ३॥ दिनेन्दुभुक्तभागादिर्जायते चेष्टकालिक उदयादिष्ट नाडयस्तुषड्गुणास्तत्र योजयेत् । त्रिंशद्भागाप्तराश्यादिश्चन्द्रस्तस्कालसम्भववः । शशाङ्कवत्सर्वखेटान् कुर्यात्तत्कालसंभवान् ॥ ३ ॥ इत्यश्विन्यादेलाभः ॥ १९ ॥
शेषग्रहन्यासदर्शनमाह--- जागरूको जनो येन राशिना जायते सदा ।
तारायंशांच्चमेषादेर्यत्र तन्मूर्तिमालिखेत् ॥ २० ॥ जागरूक इति । जागर्तीत्यादिप्रागुक्तस्थानुवादसूत्रमेतन्मषादिभावचक्रेषु वक्ष्यमाणेषु जन्मराशिग्रहणभ्रमव्यवच्छेदनाय । तारेति । राशिचक्रानुवाद एषः मूर्त लग्नं मुख्य न्तदेव भावयेत् । नतु सत्यपि जन्मपत्रलग्नज्ञाने जन्मसममिति भावः ॥ २० ॥ न चेत् खेचरा ः स्थापिते किञ्च चक्रे इत्युक्ते प्रेहव्यासमाह
तत्र ग्रहास्तु प्रागुक्त स्थानस्थाः स्वमनीषया __ स्थाप्या संहार मार्गेण विचाय तच्छभाशुभम् ॥ २१॥
तत्रेति । संहारमार्गेणेति रवीन्दुभौमगुरखोज्ञशुक्रनिराहव इत्येवमगुस्यमे तथवै न्यासात् ॥ २१ ॥
"Aho Shrutgyanam"