________________
(७४) शनिः सावित्र्याः कविः मध्याया गुरुः प्रदेशिन्या मङ्गलः अङ्गुष्ठस्य स्वामी चन्द्रः एकस्याः कलायाः शिवार्पितत्वेन पञ्चदशाकलापूर्णत्वख्यापक पञ्चदशी तिथिस्थानात् । शनिना मित्राय राहवे वृपभस्थानं दत्तं तेनवृषे राहः श्रेष्ठस्तत्रस्थोदशमं कुम्भस्थानं मङ्गलेन स्वमित्राय भानवेदत्तं पूर्णदृष्टया पश्यति ततो राहुरव्योः परं वैरम् । गुरोः शुक्रस्य च मध्यानामिकयोः सीम्ना देवदानवगुरुत्वेन वैरम् । राहोर्भक्ष्यमिन्दुः स्वस्वस्थानातीयपर्वणि कर्कराशेरिन्दोः पूर्णदृष्टत्वात् । मङ्गलोऽपि भक्ष्यमेकाद शस्थानत्वादकादशतुभवनं सर्वे पश्यन्ति खेचराःसम्यक् । पूज्यवर्गोंगुरुसितौ शुक्रस्य दानवगुरुत्वात् गुरोश्च पूज्यत्वं दानवानामपि - पूर्वदेवत्वात् । देवत्वमदेवत्वमुभयमपि, असुराणामागमेऽपिसिद्धं 'देवा चउविहा' इति तथादेवोपकरेइ असुरोपकरेइति भगवत्यां तथोक्तेः हिमांशुबुधयोः सूर्यादुच्चाधः स्थानात् वैरं विवस्वन्मन्दयोः पूर्वापरादिशोः स्वामित्वेन वैरं कुजार्कयोः स्थानसङ्गादतिमैत्री । सितज्ञयोरपि शिवायां कन्यास्थानदाना चन्द्रस्यार्क बुधौमित्रोऽपि एकागुलस्थायित्वात् , कुजगुर्वादयः समाः प्रत्येकमगुलिस्थानान्मन्दस्यज्ञसितौ मित्रेर्गुरुमध्यः परेऽरयःइतिचन्द्रेण वैरं प्रान्तेविन्दुशनश्चिराविति वचनात्, इतोऽङ्गुष्ठे चन्द्र इतः प्रान्ते शनिरिति । अङ्गुष्ठप्रदेशिनी च देवरुद्धाशिवा तारा च दानवैर्गुरुस्तुमध्यस्थ एव मध्यायां दानवस्य राहोरपि पूज्यत्वेनोक्तत्वात्, सुरासुराचार्ययोराशिमध्ये फलदायित्वान्मध्यस्थानं तत्र गुरोर्गुरुस्थितिकत्वात् गुर्वाअङ्गुलिः स्थान शुक्रसमासस्थितिकत्वेन लघुगौरी स्थानं रवेः शुक्रशनी शत्रू इति स्वस्थानाद्रेस्थितौ ज्ञः समः इति स्वस्याधः कुजजीवशनिभिः स्वतएव सूर्यराशेरनपेक्षं राशि भोगात् स्वतोऽङ्गुलिस्थानानि लब्धानि सूर्येन्दुभ्यां महाग्रहेन्द्रत्वेन स्थानप्राप्तावपि राशिचिन्तायां पराश्रयत्वं स्वीकृतं ज्योतिशास्त्रेऽन्येषां गृहद्वयसद्भावे सूर्येन्द्वोः प्रत्येकमेकं गृहं करिव्यं सिंहश्च तद्वदत्रापि स्थानचिन्तायां तयोरेकमेव स्थानमङ्गुष्ठः प्रतिमा संयोगात् तत्रापि चन्द्रस्य पश्चिमायां प्रतिमासमुदयप्रतीतेस्तारोनुसारस्ततो नक्षत्रचक्रे ताराद्यभागे चित्रा
"Aho Shrutgyanam"