________________
(७३) पृथ्वीजन्माप्ययमनेनैव हेतुना तत एव ताम्रमुद्रापरिधानं तर्जन्यामेव शक्ति पूजा च तथा नृपो राजाङ्गुष्ठस्तदासनं तन्मलं तत्र सूर्यप्रत्यासन्नो बुधः राजसून् राजासने तिष्टतीतिन्यायात् सुश्रुत वैद्यग्रन्थोक्तमङ्गुष्ठसन्धिद्वयभावादेव अस्पष्टः । लक्ष्म्यां मध्याङ्गुल्यां गुरुधनुराशिशोयोगात् मध्ये सूरासूराचार्याविति वाक्यान्मध्याश्रय एवायं रवीन्दु भौमगुरव इति मित्रस्य भौमस्य प्रत्यासत्तिरपि नक्षत्रचक्रे मध्याया अधस्तलस्योत्तरदिशि उत्तरफाल्गुनी जन्मनक्षत्रमपि गुरोरूत्पत्तिदेशः । सिन्धुः कणयरुइसमदिठी बारसकिरणो य सिंघ देशभवो इति वचनात् सचापि उत्तरस्यां सैन्धवाअश्वा इति प्रतीतेः । त्रयोदशमासान् यावदेकराशिस्थिति ज्ञापिकापि त्रयोदशी तिथिर्मध्याग्रे तेन तत्र मध्यात्रिसप्त भास्करा इति मताश्रयेण द्वादशार्चि गुरुः सावित्र्यां कविशुक्रः कवेरमित्रेन्दुभित्रैज्ञार्को समावुभाविति । आरम्भसिद्धेस्तथाज्ञशुक्रशनिराहवः, इति भूवनदीपकस्य वचनात् बुधस्यगृह कन्याराशिस्तस्य शिवाग्रे स्थानात् ताराने शनेः प्रसङ्गश्च नक्षत्रं ज्येष्ठासोऽपि तत्रैव अत एव दक्षिणाशापतिः शुक्र इति प्रागुक्तम् । किञ्च रजः कविज्ञाविति क्षत्रियायो गौर्या रजोरूपः कविरेव युक्तः पादरूपायां तस्यां शुक्रस्पापि द्विपदतया भणनात् । कनिष्टायां शनिर्मन्दस्तेजस्त्वात् पश्चिमाधिपतित्वाच । नपुंसकत्वेन स्वल्पबलः स्वमित्रस्य बुधस्य राहोर्वा भवनाय मिथुनायोचितः हस्तपृष्टे राहुकेतू तत्रापि मध्यामध्यपर्यायवदाहोराधिपत्यं परतोऽगृष्ठमध्यपर्वयावत् । केतोरिति विभागः अनयोः पृष्ठस्थितिर्नवग्रहध्यानायेत्युक्तं प्राक् तत एव यन्त्रन्यासे करतलद्रष्टिभ्यां नम इति सार्थकं तत्रापि देवाधिष्ठानात् । हस्तपृष्ठे शुभलक्षणे अष्टोत्तरी दशाचक्रे राहुदशायां विंशोत्तरीदशाचक्रे राहुकेत्वोदशायामपि शुभमिति परिज्ञानाय लभ्यादि ज्ञानाय च एवं वाराः सप्तेव रात्रौवाराणामनुपयोगान्नवारदोषाः प्रभवन्ति । रात्राविति वाक्यात् दिनरूपे हस्ततल एव तथा ग्रहानव अग्रे वक्ष्यमाणभावचक्ररुपराशिचक्रेषु तदुपयोगात् । एवं च मेषादि त्रयस्य स्वामी शनिः कर्कादि त्रयस्य कृष्णपक्षे शुक्रः शुक्ले चन्द्रस्तुलादित्रयस्य गुरुर्मकरादि त्रयस्य मङ्गलः तारायाः पतिः
"Aho Shrutgyanam"