________________
(७२) एवं सेवनया गुरोः सुरतरोम॒ष्टं विमृष्टं तिथेश्वकं चक्रभृतां निमित्तसुधियां दुर्बोधमायासतः । सिद्धोपासननर्मकर्मरुचिना मेघेन सत्संविदा
मत्वातत्कथयन्तु लक्षणकथां सन्तः श्रियां साधनम् ॥१॥ इति श्रीहस्तसञ्जीवनव्याख्यायां सामुद्रिकलाख्यायां तिथिचकदर्शनं सम्पूर्णम् ॥ अथ वारदर्शनमाह
रविरङ्गुष्ठमध्यस्थस्तन्नखं चन्द्रमास्फुटः । मङ्गलस्तर्जनी शीर्षे नपासनगतो बुधः ॥ १ ॥ लक्ष्म्मा गुरुः कविौयाँ कनिष्टायां शनिर्मतः ।
हस्तपृष्ठे राहुकेतू चैवं वारास्तथा ग्रहाः॥२॥ रविरिति । अङ्गुष्ठमध्यत्रिभागे रविः तत्र कर्कादिध्रुवराशित्रयमध्ये सिंहव्यवस्थानात् ननु मेषादित्रयं मूलांशाच्चटत् निश्चितं कर्कादिध्रुवत्रयं कथमवतरत्, मन्यते किञ्चध्रुवसूत्रस्यां दृश्यते मेरोरपि तत्रैव ध्रुवत्वात् तेन तुलादि त्रयमेवधूवमष्टव्यमिति तन्न, दक्षिणहस्तस्य दक्षिणायनरूपत्वेन दक्षिणादिग्भागस्थस्पष्टनखरूप चन्द्रोपलम्भात्तद्भवनादिरेखात्रय शिवस्थानत्वेन मेरूरूपाद्वाङ्गुष्ठ एव दिवसो दक्षिणो हस्तइत्यस्य न्यूनभवनादवतरत् संजाघटीति । भरतक्षेत्रस्यापि मेरोदक्षिणदिगवष्टम्भात् ज्योतिःशास्त्रेऽपि पुरीरक्षरतां देवकन्याथकान्तीसितः पर्वतः पर्यलीवत्सगुल्मं पुरीचोज्जयिन्याह्वया गर्गराटं कुरु क्षेत्रमेरूभूवो मध्यरेखेति ब्रह्मतूल्यवचनात्, दक्षिणादिश एवमध्यरेखारम्भस्ततोऽत्रापि गोत्ररेखाया याम्यदिशएवप्रादुर्भाव इति । शिवायां तु राशि त्रयस्याधिपानामनवस्थानादङ्गुलीपतेः शुक्रस्यापि अनवस्थितत्वात् क्रमागतराशिचकबलाद्राशित्रयं चटत् बोध्यम् । राशिचक्रे मकरस्य राशेस्तर्जन्यामूलव्यंशे व्यवस्थानात् उत्तराषाढानक्षत्रसंभवेन तज्जन्मा अरुणो मालवभा इति वचनात् पूर्वदिग् मालवदेशोद्भूतोमङ्गलस्तर्जनीशीर्षे शत्रुहननेऽधिकृतत्वात्तस्या इति नवम्याः स्थानप्रत्यासत्या नवार्चिमान् पृथ्वी तत् स्थानात्
"Aho Shrutgyanam"