________________
ततो लभ्यमलभ्यं वा स्वराशिपरमेलकात् ।
ज्ञेयं कर्कत्रयं मेरो खमध्याद्यपर्वसु ॥ १९ ॥ तत इति । तत् स्थानराशिनामवतो वस्तुनो ग्रामान्नराद्वा शुभो - रेखादि लक्षणे लभ्यं तदभावेन लभ्यमिति वाच्यम् । कचिदेखाणामप्राकट्ये स्वराशिना तद्राशेः षडष्टकादिवर्जनया स्वामिमैच्यादिकं विमृश्य मेलकश्चिन्त्यस्ततोलभ्यालभ्ये ज्ञेये न चैवं ज्योतिःशास्त्रावष्टम्मे अलाक्षणिकत्वापत्तिः करद्रष्टुरितिवाच्यं-पृच्छन्त्या पितृमन्दिरे पितृग्रहाभिक्ष्याक्षरं गृह्यते । पत्युश्चापि तदीय मन्दिरगतं गु अभिख्याक्षरम् ॥१॥ सुधारभ्यवदि व्यवस्थिततिथीन् दत्वा मुनीश्वध्रुवान् । भागं वह्निभिरककेन तनयो द्वाभ्यां सुताखे नवम् ॥२॥ इति भुवनदीपके ज्योतिः शास्त्रेऽक्षरविचारात्मकचूडामणि शास्त्रावष्ट. म्भवत् निमित्तेऽपि निमित्तान्तरसाहर्चयस्य सर्वत्राभीष्टत्वादित्युक्तं प्राक् ।
अथ पञ्चम्यादितिथिप्राप्तौ तत् स्थाने राश्यभावात् किं वाच्यमत--आह
ज्ञेयमिति । स्थावरं राशित्रय कर्कादि तच्चन्द्रादिमहागृहस्थानत्वात् बुधस्य महाग्रहत्वं तच्छुक्रमहाग्रहस्य सम्मुखगमनादपि बुधसम्मुखगमनस्या तीव दुष्टतायारत्नमालादौ कथनाद्विज्ञेयम् । ज्योतिःशास्त्रे त्रिशश्चतुर्णामित्यादिना राशिमार्गानुरोधेन पञ्चदशतिथीनां विभागवत्र तिथिभागानुरोधेन राशित्रयं पुनरुक्तिः । नन्वेवमङ्गुष्ठ राशिषु शुभलक्षणे सावित्र्यामशुभलक्षणे किंवाच्यमिति चेदुच्यते कृष्णपक्षगौर्या शुल्लेऽङ्गुष्ठे न शुभाशुभ एवं च रेखासु शुभलक्षणपाटवेऽपि लभ्यालभ्ययोयूनत्वपूर्णत्वेवाज्ञेये राशिमेलकस्यावश्यं विमर्शः कार्य इत्यत आह-यद्वेति । स्पष्टं अत्रकेचनध्रुवराशित्रयं न मन्वते किन्तु अङ्गुष्ठभागत्रये प्रत्यंशं मेषादि चतुष्टयमुपरितः प्राहुरतश्चन्द्रोरविश्वस्थानस्थ एवं बुधोमित्र शनिगृहे मीनेति च वेति ।
१ स्थावरत्वं वक्ष्यमाणजन्मचक्रे निजराश्यादिकः क्रम इतिभणनाद्राशिव्यवस्थाया अनयत्यात् । २ प्रतिशुक्र त्यजन्त्येके यात्रायां त्रिविधं बुधाः तस्मात् प्रतिकुज-कष्टं ततोs पि प्रतिसोमजमित्यारम्भासदौ ॥
"Aho Shrutgyanam"