________________
(५९)
ग्गमने सुमुहूर्तेऽपि नि:फरतेयुयोगाय । तथा च स्वराशिस्वामी तन्मित्रं वा वारः अधोलोके प्राप्तस्तदा रात्रौ स्वग्रामानीच प्रदेश स्वदेश ग्रामादौ लाभ इति अत एवोक्तमवहस्तस्तमस्विनौति । एवं नक्षत्रचक्रेणापि दशाचक्र दिगलभ्यं गतवस्तुस्थान प्राप्त्यादिफलं ज्ञायते इति । अथ बहुशो हस्तदर्शने परस्परविरोधे किं सत्यमितर द्वावेदामित्या जन्मसंशय एव शास्त्राज्जन्य इति चेत्तन्न; तत्त्वनिर्णयार्थ तादृग् गुरूयोगे एकवारमेव दर्शनस्यौचित्यात् वहुशोदर्शने तत्ताद्वरुद्धोक्तौ श्रद्धासंशयात् फलसंशया पत्तेर्दर्शयितुरेव हानेश्च । चन्द्रचक्रं राशिचक्रे निधिलाभादौ चन्द्रस्थानलाभाय ननु ? चन्द्रस्थान मङ्गुष्ठाग्रमस्त्येव तत् किं तस्य नवीन स्थानाधिजिगमिषयेति चेत् ? सत्यं स्त्रीगृहत्वात् राजरुपत्त्वात् तस्माच्चन्द्रबलेबलमितिवाक्यातू सर्वतोऽधिकत्वात् सर्वत्र दुरितवचनात्, सर्वकार्यसंमतत्वाच्च स्थाने सत्यपि रविः स्थिरः शीतकरश्चश्चेति रत्नमालाभाणितेरचिरस्थितिकत्वात् , दक्षिणहस्ते कृष्णपक्ष प्राधान्येनामावस्यां सूर्यासन्नत्वेन निर्बलत्वात् तारा प्राधान्येन नक्षात्रानुसरणमिति राशिचक्र बालानां झटितिबोधाय ग्रहस्पष्टीकरणेन फलितार्थ तत एव भाव परिज्ञानात् भावकुण्डलिकारूपं ज्ञेयमन्यथा तत्तद्रेखाभिरेव सर्व भावबोधात् तद्वैयर्थ्यपातात्, एवमन्यान्यपि चक्राणि सोपयोगानि तत्तत् स्थले वक्ष्यन्ते । तत्र तिथिचक्रे कनिष्ठायाः प्रारभ्य नन्दादि तिथिपञ्चकज्ञेयं योगशास्त्रे पञ्चमप्रकाशे-अधोमध्यो पर्वाणि कनिष्ठागुलि. गानि तु क्रमेण प्रतिपत् षष्टयेकादशीः कल्पयत्तिथीः १ इत्यादिना तथा कथनात् ।
अत्राह परः-ननुतारायां नन्दात्वं न युक्तं शनिराहुस्थानत्वेन श्यामत्वात् सर्वाङ्गुलिभ्योहीनत्वेन नदेति वृद्धयर्थविरोधात्-अत एव अङ्गुष्ठादौ विजानीयादिति । दिनमानघटिका संख्यायां पञ्च ५ नन्दा ९ श्चतुर्दशे १४ त्यन्यासे नवम्याश्चतुर्दश्यारिक्तायास्थितेर्व्यवस्थापिनन्दात्वं, अङ्गुष्ठस्य युक्तं मन्त्रन्यासे तस्यैव प्राथम्यात् राजाविष्णुर्भोगीगणपतिरित्युक्तत्वाच्चेति चेन्न तारायां नन्दात्वं एकैकादशकैक विंशति घटी ज्योतिःशास्त्रे तथा
"Aho Shrutgyanam"