________________
(५८)
आगतोऽसि स्वयमेव मार्गे सर्वसाम्यानुषङ्गात् न च तत्रापि रेखाणामव्यक्तो सर्वसाम्यमिति वाच्यं या तिथिः प्राप्ता तत एव दिनघट्यादिगणनायां तत्तदङ्गुलिग्रहभावनया विवेकात् । अथ मास्तुदिन विवेक इति चेन्न; प्रत्यक्षं भुज्यमानत्वादिनां शुभाशुभफलस्य तज् ज्ञानेकरस्य दुष्टर्विवेचकत्वस्यैव सर्वेष्टत्वात्, यदि च यवादिना तत्तत्पक्षरात्रिजन्मादिविवेकऽनूचानानां चिरन्तनानां समभीष्टस्तदा शुभाशुभदिनघटीव्याक्तिः आगन्तुकाः प्रशस्ताः स्युरित्युक्तेः कथं नात्रेऽति सम्यग् भावनीयम् । अथैवं तिथिचक्रं प्रमाणमस्तु किं वारचक्रेणेति चेत् ग्रहाणां निष्फलतापत्तेः । ज्योतिषेऽपि तिथि नक्षत्रयोर्लक्षणं चन्द्रे स्पष्टं न तथावारस्थेति । तत्रापि तद्वयैर्थमनुषज्यते ।
अथ तत्र अष्टपाद्यर्थं वार्तिकप्रवृत्तेर्मूलत्वादस्ति वारोपयोग इति चेत् प्रष्टव्योऽसि लोकानां प्रार्थक्येन गमागमविवाहादिकार्ये किमपि वारप्रयोजनमस्ति नवा ? अस्ति चेत् ? तदेवात्राप्यस्तु नास्तीति तु वक्तुमशक्यं राजाभिषेकोत्सवेत्यादिना रत्नमालायां प्रत्यक्षेण तत् फलकथनात्, अत्रापि वारपरिज्ञाते तद्वारेण स्वराशिनाथस्याङ्गुल्यां शुभाशुभलक्षणे पूर्णफलं वैरपादमात्रं साम्यत्वर्द्ध स्वराशीशभित्राङ्गुल्यां पादोनं फलमित्यादि चिन्तनया वारस्योपयोगात् यदाहुः सर्वतोभद्रचक्रे ज्योतिर्विदः ।
स्वक्षेत्रस्थे फलं पूर्णपादोनं मित्रभेग्रहे
अर्द्ध समगृहे ज्ञेयं पाद-- शत्रुगृहस्थिते ॥ १ ॥
यथा कस्यापि भणनोद्योतस्य कदापि यथोक्तविधिना हस्तदर्शने प्राप्तः शुक्रवारः परं स्वराशिस्वामी रविस्वेन रखे तथा च किञ्चत्यादमात्रमेव पठनं यावज्जीवं शुक्रवारपठने बुधेत्वर्द्धं खेः साम्यात् एवं सर्वकार्यमुहूर्तेषु तत्तद्वारपरिज्ञानफलं बोध्यं प्रायो नरस्य करदर्शने पूर्वाह्ण एव नियमात् वारद्वयोपयोगोह्यावश्यक इति द्वितीयं वारचक्रं तु स्वराशीश : करदर्शने यद्वेलायां यां दिशं प्राप्नोति । तत्र शुभरेखादिलक्षणे तद्वेलायां तादृग्गमने शुभं मुहूर्तं विना तद्बलात् यत्रतु स्वराशीशस्य वैरिणोदिग् । तद्वारवेलायां तद्दि
"Aho Shrutgyanam"