________________
(५७)
शुभ दिनादेरवसरस्य प्रोक्तत्वात् तिथि चक्रादिकार्यमप्यावश्यकमिति मत्वा तद्विवक्षायामाह
नन्दा भद्रा जया रिक्ता पुर्णास्युस्तिथयः क्रमात् ।
ताराद्याः कृष्णपक्षे तु दर्श सूर्येन्दुसंगमः ॥ १॥ नन्देति । यथाहि विवाहादिकार्ये मुहूर्तनिर्णयोऽपि सुमुहूर्त एव क्रियन्तेऽङ्गविद्यापिसमय एव फलाफलचोधिकास्वप्नवत् , तत एव स्वरशास्त्रेऽपि तिथिवारनक्षत्र राशियोगस्वरादि विमर्शः । वात्स्यायनेपि तिथ्यपेक्षया कामकळावृद्धिश्च तथा सामुद्रिकेऽपि तिथ्याद्यपेक्षया कालस्य फलाफलयोः प्रयोजकत्वमेष्टव्यम् । यथोत्तरं निमित्तानां बलीयस्त्वेनान्तरिक्षरूपज्योतिःशास्त्रस्य कालपाधान्येन प्रवृत्तस्य सर्वत्रापि उपादेय वात् तत एव सर्वनिमित्तान्ते तदुपन्यासः सूत्रकाराणां तेन तिथिचक्र-१ वार चक्रद्वयं ३ नक्षत्रचक्रं ४ चन्द्रचक्रं ५ राशिचक्रं ६ वर्षफलचक्रं ७ जन्मपत्रचक्रं ८ मासचक्रद्वयं ९-१० पक्षचक्र ११ दिनचक्रं १२ घटीचक्रं १३ दशाचकं १४ दिनलग्नचक्र १५ द्रेष्काणचक्रं १६ योगचक्र १७ दिकचक्रं १८ देहचक्रं १९ हस्तचन्द्रचक्रं २० अङ्गुष्ठादि स्वरूपचक्रं २१ चेत्येकविंशतिचक्रर्दर्शनं निरूप्यते । तत्रादौ शुक्लाशुक्लपक्षयोस्तथा दिवारात्रौ च जन्मायुक्तिसविसरनिर्णयस्तथावयसोलभ्यायुक्त्यावर्षमासदिनरूपत्रिधाकालादिलभ्यालभ्यनिर्णयोऽपिवाच्यः शास्त्रे भोजनावसरे दुःखं कोप्याहुः--श्रीमतापपीति वचनात् तेन एकै क्षेत्रसम्भूतलक्षणं वाप्यलक्षणं दशभिर्दशभिर्वषैः स्त्रीणां दत्ते निज फलमित्यादिना लक्षणानां फलोदयसमयोक्तिः ततो द्रव्यादि लभ्यालभ्य बोधाय तिथिचक्रमुच्यते---तिथिव्यवस्थादिनमाननिर्णयाद्बोध्या अङ्गुष्ठे पञ्चदशीति भणनात् तत एव तत्र सूर्यचन्द्रयोरवस्थानं स्पष्टमिति । किञ्च तिथिचक्रं विना पुंसः स्त्रियावा केदिनाः शुभा-अशुभावा काघटी कीदृशीतिवा कथं ज्ञेयम् । अथ दक्षिणहस्ते पञ्चदश तदनु वामे पञ्चदशेति क्रमात् पुंसः स्त्रियातद्वयत्ययेनेत्येवं किं तिथिव्यवस्थयेति चेन्न सर्वसमापत्तेः रेखाभेदाढ़ेद इतिचेत् , तासामस्पष्टत्वे शून्यतापत्तेः अमुल्यस्तथा ग्रहभावनयेति चेत् , चिरं जीव
"Aho Shrutgyanam"