________________
( ५६ )
जन्मनि लभ्यादौ वा दिनं सूर्यस्य पुरुष ग्रहत्वात् दिनघटिकाविमर्शः सर्वमेतत् स्त्रीणामपि दक्षिणपाणितो विचार्यम् | अनुक्तमपि पुरुषस्यद्वासप्तति कलादिकं तत एव ॥ १५ ॥
आदौ मन्त्रन्यासः मध्ये इष्टं स्मरन्निति मङ्गलद्वयमुक्त्वा तृतीय मङ्गलार्थमाह
यजमानः फलं श्रुत्वा गुरोस्तथेत्युदीरयन् ।
निरीक्ष्य माणकं रौप्य स्वव्यापारं सर्वमाचरेत् ।। १६ ।। यजमान इति । तथेति सत्यमेतदिति मन्यमानो मनसा वाचामणश्च रूपस्येदं रौप्यं नाणकमिति । देशीयभाषया मुद्रा दृष्ट्वा रूप्पस्य चन्द्रोदये दर्शनवदत्रापि मांगल्यात् स्वकार्थं कुर्यादित्यर्थः ॥ १६ ॥ अथोपसंहारमाह
इत्येवं विधिना गुरुर्गुरुमति पञ्चाङ्गुलिर्विक्षते । वश्यन्तस्य भवेदवश्यमचिराल्लोकत्रयं सद्गुणैः । वृष्टिः स्वर्णमयी च मेघविजयात् सञ्जायते तद्गृहे । मौलौ माल्यामेवाश्य शासनमहोमिभूमुजो बिभ्रति ॥ १७ ॥
इत्येवमिति । इति समाप्तौ एवं प्रामुक्तविधिना पञ्चाङ्गुलंहस्तं वीक्षते तस्यवश्यं लोकलयं ऊर्ध्वाधस्तिर्यग् लक्षणं भूर्भुवः स्वलक्षणंवा । स्वर्णप्रधाना स्वर्णमयी मेघस्य वर्षणरीत्या विजयोऽधिकत्वं तस्मात् । मौठौ शीर्षेमाल्यं पुष्पस्रक् तद्वत् शासनं आज्ञांधरान्त भूपाः ॥ १७ ॥
इति श्रीहस्तसञ्जीवने हस्तविलोकनाधिकारः ॥ अथ कथयितुमत्रारभ्यते सभ्यतेजोfaraभवसमृद्धयै विस्तरात् शास्त्रबुद्धयै । गुरुगुरुकृपयैवार्हन्त मानम्य सिद्ध तिथिगणभचारदर्शनं दर्शनीयम् ॥ १ ॥
श्री सामुद्रिकेन्द्रैः प्राचीनानूचानैर्हस्तविठोकने हस्तनक्षत्र ग्रह सौम्य
"Aho Shrutgyanam"