________________
( ५५ )
स्त्री मातृमातृपक्षादिगृहं क्षेत्रं च वाटिका |
पुंसां वामकराद्वीक्ष्यं रात्रिशुलश्रपक्षकः ॥ १४ ॥
दक्षिणादिति । स्पष्टम् । अथ कृष्णपक्षे नृणां जन्मवामाङ्गुष्ठगतैश्च तै. रिति । विवेकविलासे तथा "वामागुंठजत्रेणयनूगं जाणिज्जनिसिझाय” मिति । कररेखा प्रकरणे पुनः जित्ताउ दाहिणकरे मूळे रहा उतावजण पुज्जो अहवामेतो पच्छासेवा वाणिज्जधण पुरओ ॥ १ ॥ इत्युक्त्वा वामहस्तरेखा अपि न व्यर्थ इति व्यक्तम् । तन्नरस्यापि वामहस्ताद् यद्विचारणीयं तदभे वक्ष्यते तत् सूचामात्रमाह-- स्त्रीति । स्त्रिया माताश्वश्रुरिति-उपलक्षणात् स्त्रियाः पितृमातृविज्ञानायुर्धनभाग्यधर्मादि । मातृपक्षः स्वीयः गृहं गृहालभ्यमन्यद्वा एवं क्षेत्रादिष्वपि । न गृहं गृहमित्याहुर्गृहिणी गृहमिष्यते । इति पञ्चाख्यान ग्रन्थानुसारात् । अधिगृहकार्यमिति वचनाद् गृहविमर्शः । पुंसो वामकरात् । क्षेत्रवापे लवने च बामहस्तप्राधान्यात् । केषाञ्चिद्वृक्षाणां वामे स्त्रियाः प्राधान्यात् नागलतामण्डपादौ स्त्रीवद्रक्षणाच्च तद्विमर्शस्तत्रैव एतदुपलक्षणाच्चतुः षष्टिकस्त्रीकलाविचारो वामहस्तादेव । रात्रिरिति चन्द्रस्य स्त्रीग्रहत्वेन स्वरोदयेऽपि चन्द्रः । स्त्रीपुरुषः सूर्य इति वचनाच्च रात्रौ घटिका विचारादिः शुक्ल : - उज्वलपक्षः जन्मनिलभ्यालभ्ययोर्वामे विमृश्य । अत्र विवेकविलासे शुक्लपक्षे तदाजन्म दक्षिणाङ्गुष्ठगैश्वतैरित्युक्तत्वाद्दक्षिण करे शुक्लपक्षे निर्णय इति दृश्यते परं हस्तचिन्हसूत्रे शुक्लपक्षे तदाजन्म वामाझूठे तु रात्रिकथितपाठात् वामकरे शुक्ल पक्षानिर्णय इत्युक्तं युक्तं चैतत् स्वरे|दयानुसारात् ॥ १४॥
स्त्रीणामपि तथाविशेषमाह
पत्युः सुखं पितुः पक्षं धर्मगोधनमार्जवम् ।
कृष्णपक्षदिनं स्त्रीणां वीक्ष्यं दक्षिणपाणिः ।। १५ ।। प्रत्युरिति । पत्युः सुखं दक्षिणकरायुरेखाविशेषात् वेद्यं; तथा पत्युः पितृपक्षं नतु स्वपितृपक्षं तथाधर्मकथनात् ज्ञानमैश्वर्यवशादीत्यमे वक्ष्यति गोधनं चतुष्पादादि उपलक्षणाद्दासिदासादि आर्जव सरलता कृष्णपक्षः
"Aho Shrutgyanam"