SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ( ५४ ) भवेदित्यादि पञ्चाख्याने राजमन्त्रादौ तथा व्यवस्थानात | दक्षिणे हस्त इति अनुकूलं दक्षिणाङ्गे यो जयेदितिनीत्यादक्षिणा दक्षिणात्प्राप्या सामाचा दक्षिणेकरे इति शकुन शास्त्राद्वा तथा न्यास उचित एव अहित इति सावधान चेता ज्योतिर्विचारे सामुद्रिके च दत्तदृष्टिरिति ॥ १० ॥ अथ स्त्रिया करवीक्षाविधिमाह रात्रौ दीपं पुरस्कृत्य संपूज्यैनं यथाविधिः । स्त्रियाचामकरं वामे स्वहस्ते न्यस्य वीक्षते ॥ ११ ॥ रात्राविति । देवीस्वरूपाद्रात्रावेव स्त्रीप्राधान्यात् आवश्यके सन्ध्यायां दिवसस्याष्टमे भागे नक्तकालत्त्वात् हस्तवीक्षणं न्याय्यम् । वामाङ्गया याथान वामः करः प्रेक्ष्य वामां वामे नियोजयेदिति श्री विष्णु प्रतिमादी लक्ष्म्यादि वामाङ्गस्थापनाया वास्तुशास्त्र प्रसिद्धे, वामे पुस्तकधारिणीति वाक्यात् वाम हस्त एव तन्न्यासः ॥ ११ ॥ द्रव्यभेदाद्भावभेदोऽपीत्यपवादमाह - यो नरः स्त्रीप्रकृतिकः तत् करोवीक्ष्यते बुधैः । मध्यान्हात् परतः स्त्रीणां नृस्वभावे निशथितः ॥ १२ ॥ यो नर इति । लज्जामानवक्रोक्ति देहावगुंठनसाहसानृतोक्तिमायादि 'योगात् पुरुषाणामपि स्त्रीस्वभाव एवं स्त्रीणामप्याजैवस्वरस्वर सत्यवाक्यता - दिगुणैर्नरस्वभावो भवति । निशीथे करवीक्षाया अयोगे प्रातः सूर्योदयात्पूर्वमपि ॥ १२ ॥ बलाबल योगमाह — दक्षिणाद्बलवान्वामः पुंसत्री शीलशालिनः । नृशीलायाः स्त्रियावामादक्षिणाबलवान्भवेत् ॥ १३ ॥ १ मेहनं खरता दाढर्य शौण्डीर्य समश्रु पुष्टता स्त्रीकामितेति लिङ्गानि सप्त पुंस्त्वे प्रच क्षते । २ योनिमृदुत्वमस्थैर्यमुग्धता क्लीवतास्तनौ पुंस्कामितेति लिङ्गानि सत्य स्त्रीत्वे प्रचक्षते । ३ न चात्र पूर्वापर विरोधः पूर्वं भोजनोत्तरता नियमादिति ज्ञेय सुखभक्षिकादि सन्निधि पूर्वकायास्तादृवस्थिते गतेः प्राग् भणनात् । "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy