________________
( ५३ ) गुरुरिति । पद्मासनमत्रब्रह्मणोऽधिकारादर्थविद्यारूपत्वेन लक्ष्म्याः सन्निधानाय हस्ताधिकारात् हस्तसंजीवनस्यान्यस्य वा कररेखा प्रकरणादेः पुस्तकस्य लवंगमरिच चूर्णेन पूजेतीष्टोपदेशः, अत एव मुखमई शरीरस्पति वचनात् सामुद्रिके मुख-प्रधानं तस्य भोजनकार्यनियतदक्षिणहस्तेन सह संयोगरूपामूक्तिपूजा पूर्वविधया इति कथितमधस्तात् रेखाविमर्शनस्य ध्यानरूपत्त्वेन भोजनोत्तरत्ताया एव सौष्टवकारणत्ववेनावश्यकत्वात् । यत उक्तं सूत्रकृदङ्गवृत्ती- . मणुणं भोयणं भुच्चा मणुणं सयणासणं ।
मणुणंसि अगारंसि मण्डणं सायए मुणी ॥१॥ एतेन मनः प्रसुत्तिपूर्वकमेवकरवीक्षणमिति । स्वेष्टं देवं गुरूं च संस्मरन् गुरुः फलं निर्दिशेत् ॥ ९ ॥
हस्तविलोकने नियमाहदिने चैकस्य पुंसोवाद्वयोर्हस्तं विलोकयेत् ।
हस्तं स्वं दक्षिणे हस्ते न्यस्यावहितमानसः ॥१०॥ दिन इति । एकस्य द्वयोर्वापुंसोः करवीक्षादि न एव द्वयोरेवेत्युभयथानियमः । तथैव अनाकुलत्वेन रेखाणां स्पष्टावभासनेन दक्षिणहस्ते सूर्याश्रयेणयोग्यत्वात् । द्वयोरेवेत्यत्र स्वशरीरे हस्तद्वयस्यैव संभवान्नियमः । किञ्जिद्वामेऽपि फलं विचार्यमिति । हस्तचतुष्कं द्वयोःपुरुषयोर्जायतइति, तत्र पुरुषोत्तमन्य धर्मत्यगुरु शिष्यादेर्योग तथालोकेऽपि राजामात्ययोः पितृपूत्रयो वधूवरयोरित्यादिसम्बन्धे द्विष्टत्वेन सकलकार्यसिद्धौ चतुर्भूजत्व नियम एव बीजं स्त्रियास्तु पुरुषस्यवामाङ्गत्वादेकस्या एवकरवीक्षा चतु: कर्णस्थिरि
१ हिदुकस्य दक्षिणहस्तेन पूर्व लवङ्गेन पुस्तकपूजा २ तदनु वामेन मरिचैः पुस्तकपूजा यवनस्यपूर्व वामेन मरिचैः ततो दक्षिणेन लवंगैः पुस्तकपूजा ॥ ३ बहुना करवीक्षणे व्याकुल वादिना वक्तुर्वाक्यं विसंवादात् दीयतुः श्रद्धाभोन फलाभावात् हस्तमिति पुरुषस्ययोगाशप्राधान्यन आर्जवतया दक्षिणा भागएव पादोक्षपादौ दक्षिणहस्ते असाधरणं कार्य भोजनमेवेति तदुत्तरमेव करवीक्षण मित्युक्तं प्राक् । ४ प्रयत्नाधिक्या दक्षिणं हस्तं पूर्व तदनु वामं च विलोकयेत् ॥
"Aho Shrutgyanam"