________________
(५२)
इति बाह्यस्थितेलक्षणं देशेपिलक्षणात् द्रव्यकालभावादिरपिलक्षणं; अकारो गौरश्यामहूस्वदीर्घन्यूनाधिकावयवललाटौष्ठरेखादिर्जन्मपत्रे ज्योतिर्मतप्रवृत्तेसति ततो ग्रहावीक्ष्यास्तदभावे वक्ष्यमाणाः सामुद्रिकरीत्या ग्रहाः धर्मः शैव जैनबौद्धादिस्तुरष्कादिर्वाश्रद्धातत्तद्वस्तु तच्च प्रतिपतिरेतत् सर्व चकारात् वयोरुपचेष्टा भाषाव्यवसायादिमपि भावं विमृश्य समयोवसरम्तद्वेत्ताफलं भूतभवद्भाविपदार्थरूपं वदेत्-कथयेत् । किञ्चिद्वयभिचार चौर्यादिस्वभाव एकान्त एव वाच्यो न जनसमक्षं तेनावसरः सम्यक् परीक्षणीयः । हस्तवीक्षणे वाच्य फलसंग्रह वृत्तानि यथा--
आयुः पूर्वधनसुरवमतः पैतृकं मातृकं वा लभ्यं नारी चरितमरितः कष्टमन्यन्निवेद्यम् । विद्याकोशः परिजनकथा भ्रातृपुत्रादि संख्या मैत्रीसेवानृपपरिचयो वाहनं गोधनादि ॥ १ ॥ देशग्रामार्थवर्णव्यवहरणदिशां लभ्यमुत्साहभाग्थे धर्मः सौभाग्यवृत्तीश्च सुरकुलधनं राजयोगोऽथकीर्तिः । अन्यस्त्री प्रीतिसंगौजनिरपिमरणं कृष्णपक्षेऽन्यथावा रात्रौ यद्वा दिनेतच्छ्रतमशुभमथोवर्षमासादिजन्यम् ।। २ ।।
पूर्व वयस्युत्तरके सुखं स्त्री मृत्युः पितुर्वा प्रथमं जनन्याः । मनः प्रसादः प्रभुता प्रताप
तथा रणे संनिहिताजयश्रीः ॥ ३ ॥ पूर्वोऽवतारः परलोकसंपत् व्याघेभसर्पादिभयं विपत्तिः ।
शास्त्रावबोधः स्वजनानुरोधः स्वभकलाकौशलमांसलत्वम् ॥ ४॥ इत्यादियावन्नमनो वैरूप्यं तावन्निरूप्यम् ॥ ८ ॥
. गुरुकर्तव्यमाहगुरुपद्मासनासीनो वाङ्मयं हस्तजीवनम् । संपूज्य संस्मरन् स्वेष्टं गुरुरेवं वदेत् फलम् ॥ ९ ॥
"Aho Shrutgyanam"