________________
( ५० )
दनमेव दर्शयितुः स्वं पुण्यं परहस्ते न्यस्तमिति भावनया भोजनोत्तरतैवोभयोः योश्रेयसी स्वस्वपुण्यस्य स्वसंयोगात् इतिकृतं विस्तरेण ॥ २ ॥ सुर्वपश्चिन्तयाहीनः समधातुर्जितेन्द्रियः ।
हस्तं श्रीफलपुष्पाद्यैः प्रपूर्य विनयान्वितः ॥ ३ ॥
आद्य
सुबेष इति । उत्साहवर्द्धनमेतत्, चिन्तयाहीन इति एकाग्रमनस्कत्व ख्यापनं समधातुरिति । वाताधिक्ये जाड्येन वक्ष्यमाणातीतानागतवस्तुप्रत्ययविस्मरणात्, पित्ताधिक्येऽस्थानेऽपि क्रोधान्धभवनात् । कफाधिक्ये मनोभङ्गाञ्च न स्वस्थता ततश्चित्तायतं धातुबद्धं शरीरं चिते नष्टे धातवो यान्ति, नाशं तस्माच्चित्तं यत्नतो रक्षणीयं स्वस्थे चित्ते बुद्धयः संभवतीति वचनात् धातुषु न प्रकोपः श्रेयान् तत एवंविधिना इति प्रागुक्तम् | हस्वमिति 1 श्रीफलं नारीकेरं सर्वफल मुख्यत्वाच्चिरस्थायित्वान्माङ्गल्यमेतत्, शब्दात् रुप्यनाणकसंग्रहः मुद्राया रुप्यनाणकेन सह समुद्रस्तत्प्रधानं सामुद्रिकमिति शास्त्रीयान्वर्थाश्रयणात् । केचित्तु आज्यैरिति पठन्ति तत्राज्यं राज्यं प्रयच्छतीति शकुनशास्त्रात् स्वप्न शास्त्राद्वा---वृतेन हस्ताभ्यञ्जनं कार्ये तिलकेन शूलादि दोषवतस्यापि दुष्टस्पर्शच्छायादोषवारणत्वात् ॥ ३ ॥ हस्त सद्गुरोः पार्श्वे स्वहस्तं दर्शयेत् सुधिः । निर्दम्भः श्रृणुयात्सर्वं श्रद्धया गुरुणोदितम् ॥ ४ ॥ हस्त इति । अनुषङ्गेण व्याख्यातमेतत् यथाहि - जन्मपत्रादिविलोकनं स्वरोदयादिविमर्शनपूर्वमेव कार्यं यद्वातीथिवारभयोगांके मास राशिवयोङ्कं संमील्य मुनिभागेके शेषे शुभं न शून्यतः । इति विमृश्य जन्मपत्रं विचार्यै तथाऽत्रापि नक्षत्रबलं ग्राह्यं एते न सर्वेभ्यः समयस्य वलाधिक्यं प्रोक्तं हस्तं दर्शयेत् क्रिया योगाच्चतुर्भिः कलापकम् ॥ ४ ॥ जितेन्द्रियस्य श्रद्धालोयत्फलं कथ्यते बुधैः । स्वमवज्जायते सत्यं तत् सर्वं नान्यथा पुनः ॥ ५ ॥
जितेन्द्रिय इति । श्रद्धालोः श्रद्धावतः सर्वत्र शुभाशुभ फल प्राप्तौ श्रद्धाया एव मुख्यहेतुत्वात् । श्रद्धाया संशये फलसंज्ञयः नभोगामिवि
"Aho Shrutgyanam"