________________
( ४९ )
रूपं धर्मार्थकाममोक्षा इति क्रमापेक्षया धर्मानन्तरमेव प्राप्तावसरं शुभाय - अत एव विवेकविलाले भोजनोत्तरमेव सामुद्रिकनकाशः प्रोक्तो; भोजनोत्तरमेवायं कार्य इत्याशायिनः तत् समये कुतिथि - कुवार - कुयोगादि फलनाशात् । यदुक्तं व्यवहारादर्शे —
तिवृक्षवारप्रभवाविरुद्धा योगाश्चहूणादिषु दोषदाः स्युः ।
चन्द्रेऽनुकूले शुभदादिनाद्भिद यामात्परं बाथवदन्ति केचित् ॥ १ ॥ अत्र एव भौमे सर्वकार्यं भोजनोत्तरमेव भोजनस्यापि दोषनिवारकत्वेन प्रसिद्धेः वैरविनाशस्य ततः साक्षादुपलम्भात् नवगृहे भोजनोत्तरमेव प्रवेशः प्रवीणानां शास्त्रीय इति तेन सामुद्रिकेऽपि तत्तत्तिथिवारादि चक्रमुपयोगाम वक्ष्यति ।
न चैवं दानाध्यायनशास्त्रश्रुत्यादि नामाकुलत्वभयाद्भोजनोत्तरवा प्रसङ्गः तक्कि याणां धर्म्याणां उषा प्रशंसते गर्ग इत्युक्तेः कालस्यापि ततक्रियाफले प्रयोजकत्वात् प्रातरेव समुचित्वात् कदाचित्कस्यचिद्भोजनोत्तरत्वेऽपि इष्टा पत्तेश्व, एवं च कस्यचित्पापात्मनो दर्शनस्पर्शनालापनामग्रहादिप्रसङ्ग जन्याशुभमपि भोजनातरता नियमे निवारितं स्यान्नचेद्यादृशो दर्शनं तादृक शुभमशुभं वा भवत्कोपि निवारयेत् यदुक्तं वाग्भटे शारीरे-
चतुर्थेऽह्नि ततः स्नात्वा शुक्लमाल्याम्बराशुचिः
इच्छन्ती भर्तृसदृशं पुत्रं पश्येत् पुरः पतिमिति ॥ २ ॥
शकुनशास्त्रेऽपि एकत्र सार्थे व्रजतामित्यादिना दर्शने शुभाशुभं व्यक्तमित्यग्रे वक्ष्यते । न च कस्य चिद्धार्मिकस्य दर्शने शुभसम्भवात् प्राभातिकमपिं किं न करवीक्षणमितिवाच्यं प्रावाहिकः पन्था अनुसरणीय इति न्यायात् सूत्रस्य बाहूल्यविषयत्वात्, अन्यथा क्वचिदावश्यके सूर्योदये घटी चतुष्टयमध्ये सूर्याभिमुखं स्थित्वा रूप्यनाणक सुखभक्षिका सान्निध्येन हस्ते किञ्चिन्मात्र फलोक्तौ नैकान्त इति स्वहस्तदर्शनं तु दर्पणवत्सूर्यवद्वा प्रातरेवकार्यं परहस्तदर्शने तु द्रष्टुः करोपरिपरकरन्यासात् स्वपुण्यस्याच्छा
हस्त...४
" Aho Shrutgyanam"