________________
(४८) कुतः प्रातः स्वहस्तदर्शनवत् परहस्तदर्शनेऽप्य बाधकात्, तिथिपत्रेण तिथ्यादि श्रावणस्येव हस्तरेखाफलश्रावणस्यापि ज्ञानहेतुत्वेन विशेषतः प्रातरेवौचित्यात् अत एव चिकित्सकानां नाडीपरिक्षणादि प्रातरेव तदवसरे द्रष्टुनिनैर्मल्यात् दर्शयितुरपि वातादि विकारशान्त्यानाकुलत्वाच्चेति चेन्न ।
रिक्तपाणि पश्येच्च राजानं दैवतं गुरुम् ।
नैमित्तिकं विशेषेण फलेनफलमादिशेत् ॥ १ ॥ इति वचनात् श्रीफलादेरादानेऽपिगुरोः पुरो ढौकनात् करदर्शयितुः पाणेरिक्तत्वात पाणेः फलं लिप्सुः पाणिमेव प्रथमं पूजयेत ग्रहफललिप्सोहपूजावत् एवं जीप्सोरपि पुस्तकपूजावद्धस्तस्य पूजाभोजने एवं नानारससंसर्गात् तेन पञ्चाङगुल्याः कराधिष्टायिकाया देव्या भोगप्रियत्वात् द्वयोरप्युपरिप्रसादः अतः “शतं विहायमोक्तच्यामिति तथा प्रथमं भोजनं फलमिति च लोकोक्तिरेव प्रमाणयितव्या यथाधिकारमधिकृत पूजैव श्रेयसी रणे शस्त्राश्वगजभटभूजपूजनवत् शकुनावसरे बलिपिण्ड दानादिना भाषणार्चनवद्वा न चैव चन्दनादिनैव तदर्चनमस्तु इति वाच्यम् । ततोऽपि नैवेद्यरूपस्य तथाक्रमेण मदनाहुतिविधिरिति सौन्दर्यलहया होमरुपस्य वा भोजनपूजनस्य प्राधान्यात्, अथ भोजनेन भोक्तुरात्मन एव पूजा किं तत्र हस्तस्येति तन्न; अवयवावयविनो सर्वथा भेदाभावात् यन्नियमितमवाप्य यक्रियते तत्तत्रैव उपतिष्टते, चक्षुस्तेजोनिमित्तमत्र्यवाहियमाणस्योषधस्य चक्षुविषउपधानवदित्येवं हस्तस्यैव तत् प्राप्तेश्च, अतस्तर्जनीमप्युच्चैः कृत्वा न भोक्तव्यमिति । किच प्रातर्भकर्मशौचाद्याचारस्यावश्यकत्वादुभयोस्तल्लोपे ऐहिकामुष्मिक फलविरोधेन दोषोऽपिधर्माचारस्य करणेण भुक्तस्य भुक्तिसमयादर्वाक् करवीक्षणे सत्युभयोराकुलतया रेखाफलानां सम्यग् भावनां विना द्रष्टुर्वाक्यविसंवादः परस्य श्रद्धाभङ्गस्तेन सामुद्रिकशास्त्रवितवीफलकथनमर्थ विद्या
१ भोजनान्तरं सर्वरसलिन एक:प्रतिदिनं पेयोजलस्य चुलुकोऽभिभिः ॥ इति विवेकविलासे.
"Aho Shrutgyanam"