________________
( ४६ )
माता धनं सुखं कोशः साहसं पालिकारतेः ।
आयुः स्याज्जीवितं तेजः स्वभावश्च प्रभातनुः ॥ १३ ॥ मातेति । मातृजन्यसुखमत्र विचार्यै, पालिका धात्री रतिः पुरुषस्य धनस्वजातादिना सुखसंवेदनमिति । एतत् सर्वं तद्रेखा स्वरूपात् एवमायुरेस्वातः स्वभावादिज्ञेयं, तेजः सात्विकप्रकृत्यादिकं प्रभाबुद्धिः सहजा ननु विद्या-अध्ययनादिका तस्या अन्यरेखास्थानात् यद्वा मतिरप्राप्ता विषया बुद्धिः साम्प्रतदर्शिनी अतीतार्थास्मृतिर्ज्ञेया प्रज्ञाकालत्रयात्मिका, तनुः शरीरं सामान्यतस्तत्र सुखदुःखाद्यवस्थानाद्धेतु अवयवादि विशेषसुखं तस्य सकलहस्तपुरुषवीक्षणेन अग्रेकथयिष्यमाणत्त्वात् ॥ १३ ॥
प्रदेशिन्यादिमूलानि नामतोप्यर्थतोऽपि च ।
कलहो राजमैश्वर्य यशोऽनुक्रमतो मतम् ॥ १४ ॥ प्रदेशिनीति || तुर्यपदे भाग्यं चक्रमतो मतमितिहस्त बिम्बकारमते || १४ प्रदेशिन्यादिभिः सार्धमछे विततीकृते ।
प्रदेशः तॉलगोकर्णवितस्तप उदोहताः ॥ १५ ॥
प्रदेशिनीति । अत्र मानाभिवानं तद्वितस्तिः ऊर्ध्वं रक्ष्यते तदाङ्गुष्ठदितः शीर्षाद्यवयवाः स्फुटं लक्ष्यामूर्द्धाङ्गुष्ठो भूजायुग्म मित्यादेस्तथा शिरो मुखमित्यादिः पुरुषाकारात् तत्रापि वर्जनि वामहस्तः मध्यादक्षिणः हस्तोत्र सर्व भुजारूप: शिवादक्षिणः पादतारा वाम स्त्रियामध्या वामो बाहुस्तर्जनी दक्षिण: शिवावामः पादः तारा दक्षिण इति त एव सुरभिमुद्रायां परिघयन्त्रे स्वरोदये च पूर्वोत्तरदिशोरैक्यं याम्यपश्चिमयोश्च तेन तत्तहिगाधिपग्रहमैत्रीति बोधार्थं प्रादेशादिप्रयोजनं शास्त्रान्तरात् वाच्यम् । इति नाममाला |
१ अत एव प्रज्ञावना वृत्तौ रत्नप्रभेत्यत्र प्रमाशब्दो ऽत्र सर्वत्रापि स्वभाववाचीति ॥ २ न्यूनत्वेन अप्राधान्यात् मध्या दक्षिणः अधिकत्त्वात् ।
"Aho Shrutgyanam"