________________
(४५)
विंशोपकाग्रन्थिपर्व स्थानभागांशसन्धयः
कन्दो नृपासनं पीतं गरुडोऽङ्गठमूलके ॥ ८ ॥ विंशोपका इति । नृपासनमत्र नृपो राजाश्रेष्ठ एव अत एवात्र राजयोगवतः अपत्यानि अङ्गुष्ठमूलरेखाभिर्विचार्यन्ते पट्टरेखा सिंहासनाकारस्यापि संभवात् , गरुड इति विष्णुवाहनत्वात् अश्वस्य तार्क्ष्यस्य रेखास्थानत्वाच ॥८॥
हस्तस्यादिमणिबन्धो मणिरत्नाकरोऽपि च ।
करभोस्मादाकनिष्ठमुष्ठोवक्रीस्तभूधरः ॥९॥ हस्तस्येति । रत्नाकरः मत्स्यस्थानात्, करभो नाम साम्यात् । उच्चनीच रूपत्वात पश्चिमदिग् भवत्वात् उष्ट्रः वक्रत्वं सार्पनक्षत्राश्रयात् पश्चिमायां कंटकबाहुल्याच्च ॥९॥
अवहस्तोहस्तपृष्ठं तमः शून्यं वियन्निशा ।
महस्तस्तालिकातालस्तलो भुतलगर्भको ।। १० ।। अव हस्त इति । प्रातर्हस्ततलस्य दर्शनोक्तेर्दिनत्वे सिद्धे पृष्ठं निशाराहो-- स्तमसोवस्थानात् , तमोपि चन्द्रादीनां स्थानात् वियत अत एव न रेखाबाहुल्यम् ॥ १० ॥
पुनर्भवो भुजाकण्ठः करेशुकः पुनर्भवः ।
कामायूशोमहाराजः करजो नखरो नखः ॥ ११ ।। पुनर्भव इति व्यक्तम् ॥ ११ ॥
करपुष्पं रत्नकान्तिः शत्रुघ्नकरदीपकः । पितागोत्रवलं मूलं वक्षो धमा मनोधृतिः॥ १२ ॥ करपुष्पमिति । मेघपुष्पवत् पितेति गोत्रादीनि पुरुषस्यात्र विचार्यन्ते १२
-- ----- - -
१ ब्राह्मणानां ब्रह्मकियापरायणानां जपपूजादिषु तस्या प्राधान्येन तर्जन्यादिव स्वामिनादा नविष्टितत्वाच्च कौमार्यम् । २ वैद्यशास्त्र अर्कवृक्षस्थ नामसाम्यात् ख्यादिशब्द-- वाच्यत्वं प्रसिद्ध, सिध्दान्तेऽपि भगवत्यां धर्मास्तिकाये नामसाम्यात् चारित्रधर्मनामानिगयिन्ते ॥.
"Aho Shrutgyanam"