________________
(३४) पितरेखाभवेद् गंगा मातृरेखा सरस्वती ।
आद्यरेखात्र यमुना तत् संगस्तीर्थमक्षयम् ॥ ५॥ पितृ इति । अङ्गुष्ठरूपाष्टापदगिरि प्रत्यासत्या पितृरेखा गंगा यद्यपि दक्षिणहस्ते दक्षिणदिशो रेखाया भागमाद् गंगाध्यानमयुक्तं उत्तरस्यास्तदागमात्तथापि गंगाया स्त्रिपथगतत्त्वेन तथा विष्णोः पादे ब्रम्हणः कमण्डलुनि हरस्य शीर्षे इति स्थानानि, नियमात् आगासे गंगसोउव्व इत्यागमोक्त्या देवगंगाया आकाशस्थानं तच्चाङ्गष्ठशीर्षे इति विमर्शात् पितृरेखायाः गंगास्वरूपं युक्तमेव यद्वा पर्यङ्कासनस्थाने वामहस्तपितृरेखापि मिलति सैव गंगा जात्याङ्गीकृते अशुद्धेऽपि पावित्र्यव्यवहारात् तथा विद्यारेखायास्तदन्तर्मिलनात् सरस्वती मातृरेखा न च रेखायां रक्तत्वं न सम्भवतीति त्यागाय रक्तागंभीरा तथा " अरवीण घणाहवं तिरत्ताहि" इत्यग्रे तत् फलकथनात् मातृरेखायामेव धनोदयात् तथा आयुः पर्यवसाने मत्यर्यमस्तत् संनिधानमित्यस्या रेखायाः पर्यन्ते मृत्युरेखा स्पष्टैवेति यमभागिनी यमुना आयुरेखा तत् संगः अक्षयतीर्थ प्रयागस्थाने वटः श्रीयुगादिप्रभोर्ज्ञाने वटसामीप्यात् त्रिवेणी त्रिलोकप्रतीतं तध्दयानं प्रान्ते समाधि मरणाप्तये । अन्यदपि दिग् लभ्य ज्ञाने वर्षदिज ज्ञाने भौमादिविमर्शने प्रयोजनम्-यद्यपि वामहस्ते म्यंगा द्रक्ताधिक्येन रक्तानामनदी ऐरवनक्षेत्रस्था तस्या एवं त्रिवेणी स्थानत्वं युक्तं तथाप्यत्रत्य लोकबोधाय गंगादिनिर्देशः यद्वाजलाशय मात्रे सर्वराजन्यानां राजेति कथनवत् गंगावचनेऽप्यदोषः गंगापि महानदी देवाधिष्ठिताऽष्ठापदतीर्थमूलस्पृग् केघाञ्चिन्महर्षाणां सिद्धपदमित्यादि श्रद्धयाध्येया द्रष्टव्या स्मरणीया जैनानामपि लोकभावनायां भरते गंगाध्यानस्य संवररूपात् यथा रामस्य परमेश्वरत्वेन शैवानां श्रद्धा तथा जैनानां किन्तुपरमर्षितया शिवप्राप्तत्वेन तदुक्तं प्राक् श्रद्धाविशेषात् फलविशेष इति ॥ ५ ॥ अथ सामान्यतः करविलोकने मन्त्रजपाथ हस्तप्रक्षालनरूपं न्यासमाह
अङ्गुष्ठादिपञ्चपदीः नमस्कारस्य चिन्त्यते । चतुःपदीचूलिकायाश्चतुर्दिर्भुतले स्मृता ॥ ६ ॥
"Aho Shrutgyanam"