________________
(३५)
अङ्गुष्ठादिरिति स्पष्टं । नवांशचकादौ तध्दयानं, । तत्र अङ्गष्ठे अहत्पदं “ नमो अरिहंताणं" इति न्यासः । अर्हतां पञ्चवर्णत्वात्तेन मुष्टिज्ञानेऽङ्गुष्ठः पञ्चवर्णः, एवं तर्जन्यां सिद्धन्यासाद्रक्तत्वं मध्यायामाचायन्या. सात्पतित्वं, अनामिकायां उपाध्याय न्यासान्नीलत्वे युक्तेऽपि स्नानदैवतत्त्वात् शुक्रस्थानात् शान्तिकपौष्टिककार्ये जपाधिकारात् धर्मरेखामूलत्वात् दक्षिण हस्ते जपप्रारम्भे प्राथम्यात् सितत्त्वं शुक्ले पक्षे दर्शनस्पर्शनादिषु कृष्णे . तु नीलत्वमेव, अत एव विप्रो शुक्र-गुरू इति वचनात, अस्यां रूप्यमुद्राघरणमेव स्मार्ता प्राहुः विप्राणां सावित्रत्वेन प्रसिद्धेः यत्तु आचारदिनकरादौ सावित्र्यां सुवर्णमुद्रधारणमुक्तं तदस्याः क्षत्रियत्वसूचकं । यद्वा सुवर्णमपि श्वेतं स्यादेवेति । पवनत्वात् समाङ्गुलीत्वात् वर्णद्वये पीतनीलरूपे हरितोऽपि संभवात् प्राणो हरित् , अपानः कृष्णः, समानः शुक्लः, उदानोरक्तः व्यान इन्द्रधनुः प्रभ इति विविध वायुवर्णाच्च न दोषः, तारायां साधुन्यासात् शनिस्थानात् रात्रिप्रत्यासत्या श्यामत्वं मिथुनस्थानात् नीलश्यामयोरैक्यान्नीलत्वनपि । एवं च पञ्चपरमेष्ठिन्यासेन जापः पूजार्थं शौचं विधाय दिक्पालाह्वानसान्निध्याय चतुःपदीपरिकररूपाध्येया ॥ ६ ॥
हस्तदर्शने पुण्यसाधनत्वं पारंपर्येण द्रढयतिएवं सर्वत्रमन्त्रेषु देवताराधने स्मृतः ॥ करन्यासस्तेन देवाः सदा सान्निध्यकारणः ॥ ७ ॥ एवमिति प्रकटार्थम् ॥ १ ॥ हस्तदर्शने पुण्यसाधनत्वं पारंपर्येण द्रढयति
हस्तद्वयायुरेखान्तर्योजने प्रातरुन्मुखैः
प्रत्याख्यानस्य समये ध्येयासिद्धसिलाबुधैः ॥ ८॥ हस्तेति । पूर्ण दर्शनमेतत् , एकहस्तदर्शनं तु खण्डरूपत्वा निषिद्धं प्राक् । देवानामपि, अहंदादीनां सिद्धेन्तर्भावात्, तद्धयाने सर्वध्यान प्रतीतेः सकलनयात्मक स्याद्वादवतोऽञ्जलिदर्शनस्यौचिस्यात् ॥ ८ ॥
"Aho Shrutgyanam"