________________
(३३)
यद्वा-अङ्गुष्ठस्य अक्षीणमहानसादिलब्धीनां हेतुत्वेन बाल्ये तीर्थ कराणां तत एव परमामृतपानेन पुष्टेः सकलसिद्धिमूलत्वात् । मादाप्रभोः सिद्धिस्थानं तीर्थेष्वाद्यमष्टापदरूपमत्र ध्येयम् । मन्त्रन्यासे प्रथमत्वादङ्गुलस्य तेनैवाङ्गुष्ठाद्या पञ्चगर्वाः सितपीतारुणा इत्यग्रे वक्ष्यते । यत्तु अङ्गुष्टः पञ्चवर्णः स्यादित्यादि तन्मुष्टिवस्तु ज्ञानाय अन्यथोज्वलत्वमेव सकलज्योतिर्मुख्यचन्द्रसूर्यो: स्थानात्तव्यञ्जकमपि पञ्चदश्यास्थानं स्पष्टम् । शिरसि चन्द्रात, शिवात्मक तया वा औजस्यमनेनाभिप्रायेण दक्षिणाङ्गुष्ठयवे शुक्लपक्षे जन्मोक्तिः प्राचां उत्तमैः पुरुषोत्तमैर्मोक्षाभिलाषिभिः पितृकर्मादिकारकाणामनुत्तमत्त्वात् ।। ३ ॥ ___ कनिष्टायां सम्मेतकस्तथा अङ्गुष्ठेऽष्टापदगिरित्यस्यदृढीकरणाय पुनानान्तरं प्राह---
विंशोपकाविंशजिना अङ्गुष्ठादाद्यतीर्थयात् ।
प्रत्यग् दक्षिणपूर्वोदक तले शेषा चतुर्जिनाः ॥४॥ विंशोपका इति । विशेोपकशब्देनात्र त्रयाभागा अङ्गुलीनाम् न ग्राखा स्तेषां पञ्चदशसंख्याकत्वात् किन्तुभागानां सन्धिरेखा रूपा विंशोपकास्तेषामुत्तमाङ्गुलीषु विंशतिसंख्याकत्यात्, तद्धयानं यद्वा दैवतं त्वगुलीमुरवे इति वचनात्, तथापि जिनध्याने विंशतिः पूर्यते । शेषा नमी । १ नेमि २ पार्श्व ३ वर्द्धमान ४ रूपा । यद्वा विंशजिनाविहरमाणतीर्थकृतः चतुर्जिनी श्रीऋषभ १ वर्द्धमान २ चन्द्रानन ३ वाशिषेण ४ रूपा शाश्वतजिना इत्यनेन सर्वशाश्वतजिनध्यानं सूचितं । एतदद्यानं ज्ञाननैर्मल्याय ॥ ४ ॥
रेखाश्रयणध्यानात् । राज्यश्रीर्भवतार्जितेत्यादिना हस्तवर्णनं मनस्यादधानः श्रीऋषभप्रभुपादुका तीर्थमक्षयवटं निदिध्यासुराह--
१ नमो अरिहंताण-इति न्यासात् ससिधवला अरिहंता, रतासिद्धाय सूरिंणे कणयं तेन तर्जन्यां मङ्गलाश्रिताया-अरुणत्वं अरुणस्य सितेऽन्तर्भावात् । मरगय भाऊ उवझाया सावित्र्यां उपाध्यायन्यासान्नीलत्वं पवनाश्रयात् सामासाहुसुइंदितु इतिस्तोत्रे तारायां साधुपदं न्यासश्यामत्वात्.
हस्त...३
"Aho Shrutgyanam"