________________
( ३२ )
सूर्यस्याप्यस्यां राश्यादि चक्रे तथा मुष्टिकरणे चन्द्रस्यापि प्राप्त्या सर्वज्योति -
र्देवसंगत्या च वीर्थं ध्येयम् ॥ १ ॥
अथ परसम्मति निदर्य स्वमतमाह
-
शत्रूञ्जयस्तुतर्जन्यां मध्यमायामुज्जयन्तकः । अर्बुदः खलुसावित्र्यां कनिष्टायां समेतकः ॥ २ ॥
शत्रुज्जय इति । अङ्गुलीषु मन्त्रन्यासे आद्यत्वात् आद्य प्रभुपदं शत्रुञ्जयस्तर्जन्यां तस्यां जापेन शत्रुजयादन्धर्थात्, मध्यायां जापेन धनप्राप्तेर्धनाधिष्टायिकालक्ष्मीरपि तत्रैव तन्मूले ऊर्ध्व रेखया धनसमृद्धिसर्वदेशख्यात्याचार्य पदप्राप्तेश्च सन्ध्यायां द्वारकापूर्यां मध्याह्ने रैवताचले इति प्रभासखण्डे भणनात् लक्ष्मीपतिनिवासेन उज्जयन्तो मध्यायां ध्येयः गौरी सावित्री शत्रुपत्नी हिमवतः पुत्री शिवस्वरूपादर्बुदो हिमवन्नगराजसूनुरिति लोकप्रतीत्या परिशेषा द्वा तत्र ध्येयः कनिष्टायां पञ्चतीर्थ्यां कनिष्टत्वात् विंशविंशोपकानां संख्याया विश्रामाद्विशार्हन्निर्वाणभूमिसमेत कस्तीर्थं तत्र ध्येयं समैस्सर्वैः समतारूपेण सर्वत्र अवकै र्भा ज्ञानं तत् सहितैः सिद्धैः इत प्राप्तः सम्मेतकः सम्मेदको वा सम्यक् वृद्ध इत्यर्थः ॥ २ ॥
अष्ठेऽष्टापद गिरिः पञ्चतीर्थान्यनुक्रमात् । स्वहस्तदर्शने नैव वन्द्यते प्रातरुतमैः ॥ ३ ॥
अङ्गुष्ठ इति । अङ्गौ शरीरावयवे तिष्ठतीत्यङ्गुष्ठः । तत्र रजताद्रि कैलासापरनामाष्टापदतीर्थं ध्येयं श्री आदिदेवस्य सूर्यस्वरूपेण ध्यातव्यस्य तत्र ब्रह्मपदापरपर्याय मोक्ष प्राप्तेः । अङ्गुष्ठोहि स्फटिकवन्निर्मलो जीवस्वरूप प्राधान्यात् तत एव स्कटिकोमोक्षदः परं इति जपमालायाः स्फाटिक्याङ्गुष्टे मोक्षजापस्थाने अवश्यं सन्निधानं अष्टापदस्य स्फटिका चलत्वात् यद्वा योगप्रधान्येन शिवस्वरूपस्य अर्हतामाद्यस्य स्फटिक धवलध्यानं यतः
शुद्धस्फटिकसंकाशं तेजोमूर्तिमयं वपुः ।
जायते क्षीणमोहस्य सप्तधातुविवर्जितम् ॥ १॥
" Aho Shrutgyanam"
----