________________
अहम् अथ निमित्तज्ञानं केवलं शास्त्रादेव न ज्ञातुं शक्य, अनन्तत्त्वात, लक्षणशास्त्रस्य ततोऽप्यधिकत्वात् परीक्षाया इति । तेन इष्टध्यानजापादिकथन मावश्यकं येन वाक् सिद्धिस्तत्तत्प्रतिबंधकदुरितध्वंसेन सञ्जायते ततपूर्व भणिते हस्तदर्शने लक्षणविमर्शः केवलं न प्रयोजनं किन्तु तीर्थयात्रारूपं पुण्यमुद्भवति तदाह---
मूलेऽङ्गष्टस्य स्याद् ब्राह्यचं तीर्थं कायं कनिष्टयोः । पित्र्यं तर्जन्यङ्गष्टान्तदैवतं त्वङ्गलिमुखे ॥१॥ मूल इति । ब्रह्मणो ज्ञानस्य हितं योग्यं वा ब्राह्मयं तीर्थ तीर्यत अनेन दृष्टेनेति तीर्थ, अङ्गुष्टस्य मोक्षजापेऽधिकारात्, ज्ञानसाधनत्वेन द्विजानां सानादौ तदुपयोगेन बुधस्य स्थानत्वेन तन्मूले तद्धयानं--तदन चन्द्रस्य सर्वज्योतिर्मुख्यत्वात् कनिष्टयोर्मूले कायं शवयोज्य यशोभरसूचकं जन्मस्थानत्त्वात् कायलब्धिरूपं जीवितरेखाया स्ततः प्रादुर्भावात् श्वासोश्वासभाषापर्याप्तिसमुच्चय लक्षणं वा ऋषीणां द्विजानां तन्मूले जलदानात तीर्थ ध्येयम् । पितृणां हितं पित्र्यं मृत्युरेखास्थानात् पितृणां तत्र जलदानात् पितृरेखा संप्राप्त्या जीवितरेखा समाप्तिस्थानाद्वात्रिवेणी सम्भवात् तीर्थं ध्येयम् । देवतानां इंद्र दैवतं अगुलीमुखे मध्यायां गुरुस्थानत्वेन गुरोरपि सर्वदेव पूज्यत्वेन सर्वदेवसंगमात् , अनामिकायां सर्वदानवपूज्यशुक्रस्थानत्वात् कनिष्ठायां शनिराहू सरीसृपाविति नागस्य श्यामलत्वप्राधान्येन पश्चिमायां शनेराधिपत्येन नागलोकस्य तत्रावस्थानात् तत एवं लोहमुद्रा तारायां धार्या एवं च सुरगुरुसूरिसको उवझाया थुण साहु मन्दो इति न्यासानुसारात् सिद्धम् । तर्जन्यां शत्रुनिग्रहार्थं जपाधिकारात् लोहिताङ्गस्य स्त्रीणां रक्तवसन परिधानमाधिकृतस्य सर्वग्रहेषु मुख्यस्य राशिमुख्यमेषाधिपस्य मङ्गलस्यावस्थानात्
"Aho Shrutgyanam"