________________
( ३० )
कवेरूत्प्रेक्षा वाक्यत्वान्नदोषो यद्वा यथा हस्तस्तथापाद इति सामुद्रिकवचनात् वैद्यकशास्त्रेसुश्रुते एकस्मिन् सविद्यभागे उक्ते इतर स विश्वबाहुख्यानाच्च "यथा हस्तयोरिन्द्रस्तथा पादयोर्विष्णुरिति ” सुश्रुतशारीरे इन्द्रानुजविष्णु· स्थान पादाङ्गुष्ट दृष्टिन्यासात्करदर्शनमेव ज्ञेयमेवं विष्णुप्रतिमायामपि उदस्त शङ्खचक्रहस्तत्वं ज्ञापकं बोध्यम् ॥ १८॥
अथ ग्रन्थस्य नाम्नि षोक्त्या कविः स्वनाम्ना अन्वर्थतां दर्शयति ॥ सामुद्रिकोद्वोधि पयोनिपीय मेघो रसंवर्षति मृष्टमुर्व्याम् ।
समेधतां तेन सुखेन लोकः श्रीहस्तसञ्जीनवनमेतदाप्य ||१९|| सामुद्रिकोद्बोधीति । मेधोग्रन्थकृत् समुद्रेण मुनीन्द्रेण प्रणीतं सामुद्रिकं लक्षण - शास्त्रं तत् उद्बोधिज्ञानं तदेव पयः निपीय आहत्यमृष्टं निर्दोषीकृतं निर्मलं रसं शास्त्र ग-नरा हस्त दृशोऽखिलाः इत्यपि पाठः
- वाक्य रसं उर्व्याभूमौ भूमिस्पृशितात्स्थ्यात् तद्व्यपदेशो मञ्चाः क्रोशन्ति ग्रामो नष्ट इत्यादिवत् वर्षति प्रसारयति शास्त्ररचना विशेषद्वारा अनेन स्वकपोल कल्पिताशङ्का ग्रन्थस्य व्युदस्यते तेन हेतुना पूर्वानुसारी ग्रन्थोऽयमिति जानन् हस्तस्य - हस्तज्ञानस्य सञ्जीवनमिव — उद्दीपनमिव यत्तत् आप्य - लब्ध्वा ठोकः सुधीर्जनः सुखेन तत्तन्निमित्त ज्ञानजन्य लाभेन समेधतां वृद्धिं प्राप्नोतु इत्याशिर्वचोमङ्गलाय पक्षे समुद्रोद्भवं उद्बुध्यते उल्लसतीत्युद्बोधि - पयोजलं पीत्वा मेघो जलदः मृष्टं स्वादु रसं वर्षति अब्दैर्वाजिघृक्षयावगतैरित्यादिकविसिद्धान्ताल्लोको जलस्थलनभश्चारि जन्तुः श्रीहस्तसञ्जीवनं
सम्यक् वस्त्रादिना गलितं जलं प्राप्य सुखी भवतु ॥ १९ ॥ इतिश्री हस्तसञ्जीवनग्रन्थे सिद्धज्ञानप्रकाशके शास्त्रप्रारम्भाधिकारः सम्पूर्णः ||
"Aho Shrutgyanam"