________________
( २९) सूचकं ब्रह्मणो भ्रमाभावात् यद्वा सूक्ष्माविन्दवोऽपि सम्भाव्या नैषधीये तल्लक्षणोक्तेः। यत:--किमस्य लोम्नां कपटेन कोटिभि
विधिर्न लेखा भिरजीगणद्गुणान् । नरोमकुपौघमिषाज्जगत्कृता ।
कृताश्च किं दूषणशून्यविन्दवः ॥ १ ॥ यदीयं जन्मपत्रिका न, तदा कथमस्याः पार्थे स्पष्टनरवरूपग्रहा द्वादशभाव तत् सम्बन्धि युक्ताश्चागुलीषु भाव कुण्डलिका ॥१६॥ अन्वयेन हस्तं व्यावर्ण्य व्यतिरेकेण तदाह
नास्ति हस्तात्परं ज्ञानं त्रैलोक्ये सचराचरे । ब्राह्मयाच पुस्तकं हस्ते धृतं वोधाय जन्मिनाम् ॥१८॥ नास्तीति । परं-उस्कृष्टं ततोऽधिकं ब्राह्मया इति सरस्वत्याः प्रतिबिम्बे ध्याने वा तथा दर्शनात् वामे पुतस्क धारिणीमभयदां साक्षस्रजं दक्षिणे भक्तेभ्यो वरदानपेशल करां कर्पूर कुन्दोउज्वालामिति भणनात् । बोधायेति लोकानां ज्ञापनाय हस्तादन्यत्र ज्ञानस्थलं नेति । नचदकेस्कन्धे शीर्षे वा पुस्तकमधास्यदिति भावः ॥१७॥ श्रुतज्ञानिनामत्राभ्यासः श्रेयान् केवलज्ञानिनामपि तमेवाह
तीर्थ कराणां प्रतिमा हस्तन्यस्तदृशोऽखिलाः ।
तद्धस्त दर्शनान्नान्यत् केवलज्ञानसाधनम् ॥ १९ ॥ तीर्थमिति । तीर्थंकराः श्रीऋषमादयोर्हन्तः तत् प्रतिबिम्बानिध्यानमुद्रावस्थितानि-यथा हि अर्हतां वीतरागत्वं रागकथनाद्देशग्रहे सर्वग्रह इति न्यायाद्वीतमोहत्वं तत् प्रतिमासु स्त्रीशस्त्राद्यभावाल्लक्ष्यते तथा वामा वामयोः साम्यता सूचकज्ञानविधाने हस्तदर्शनमपि ज्ञेयं प्रतिमारूपात् यद्यपि कासाश्चित्प्रतिमानां कायोत्सर्गमुद्रायां न हस्ते दृष्टिन्यासस्तथापि
"Aho Shrutgyanam"