________________
( २५ )
अथ पादयोः रेखाः कथं नहि तान् लक्षणमिति कथितुं शक्यम् । यथा हस्तस्तथा पोद इति सामुद्रिकवचनादिति चेन्नकरलिखितस्यैव फललेखनात् व्यक्ततया । कुण्डलिकाया उपरि वत्सरादिपद्धति लेखनवत् गर्भे मूलस्थानीथं मुण्डमधस्तत्र करप्रत्यासत्तेः पादयोरूर्द्ध्वस्थानात् पाद करलक्षणात् पादस्तुर्यांशस्तन्मात्रं लक्षणमिति प्रतीयत एव मुख्य रेखा चतुष्टयमध्यात् पादे ऊर्द्ध रेखामात्रकथनात् यतः---
अधोविधानात कमलप्रवालयोः शिरस्सुदानादखिलक्षमाभुजाम् । पुरेदमूर्ध्वं भवितेतिवेधसा पदं किमस्याङ्कित मूर्ध्वरेखया ॥ १ ॥ पितृधनायुरेखाणां पादेनुपयोगादित एव करतले जन्मपत्रं भावपत्रं तदगुल्यां स्पष्टं न तथा पादयोः पाणिपादमिति व्याकरणे तन्मुख्यता कथनातू दर्शनमपिहस्ततस्यैवोक्तं न पुनः पादस्येति विवेकाच्च । किञ्च सोहमाजन्मशुद्धानां तथा जन्ममित्रमिदं जन्मांथोऽयं जन्मदरिद्राऽयमित्यादिवत् जन्मना उत्पत्त्या॑ पत्रं यत्तज्जन्मपत्रं तदपि पाणिरूपमेव भूजदळेत्याद्यभिधानात्, यद्वा पत्रं पक्षस्तदपि पक्षिण पक्ष इव नरस्य पाणिरेवोति । जन्मपत्रं तदेव तत्रैव लेखनौ चित्यात् वस्तुतस्तुब्रम्हणा निर्माण कर्मणा औदारिकाङ्गी गोपाङ्गप्रकृतिसहचारिणा निर्मिता तस्यैवविधित्वेन भणनात् । यतः -
विधिर्विधाता नियतिः स्वभावः कालोग्रहाश्वेश्वरकर्मदेवम्
भाग्यानि पुण्यानि यमः कृतान्तः पर्यायनामानि पुराकृतस्य ॥ १ ॥ कर्मप्रकृतिनामपि देवाधिष्टानं महीपालचरित्रे कुष्टविलये तथा भगवत्यां लोकपाले तत्तद् रोगादिज्ञानद्वारा लोकपालाधिकारात् प्रसिद्धं तद्रूपत्र ह्मकृतेतिभावः । अथ कथमेतत् ज्ञेयंजन्मपत्रीयमिति । तनुधनसहजसुहृत् सुतरिपुजाया मृत्युधर्म कर्मायव्ययरूपाणां रेखाणामवस्थानात्, तत्र तनुरेखा,
१ पादे पीन्द्रानुज विष्णोरधि दैवतं । श्रूयते बुद्धेर्ब्रह्मा अहंकारस्येश्वरः मनसश्च - न्द्रः दिश श्रात्रस्य त्वचोवायुः सूर्यश्चक्षुषो रसनस्यापः पृथिवी घ्राणस्य वचसोऽभिः हस्तयोरिन्द्रः पादयोर्विष्णुः पायोर्मित्रं प्रजापति रूपस्थस्येति शारिरे ॥
"Aho Shrutgyanam"