________________
( २४ )
सहस्रमयुतं लक्षं प्रयुतं चात्रविश्रुतम् । मणिबन्धे पुनः कोटिं हस्तसंज्ञा विदोविदुरितिः इति विवेकविलासे ॥ ६ ॥
अथ हस्तस्य साम्प्रतं ज्योतिः शास्त्रस्य निमित्तेषु बाहुल्येन प्राधान्यात् ताद्रूप्यमाह -
अक्षया जन्मपत्रीयं ब्रह्मणा निर्मिता स्वयम् ।
ग्रहाखाप्रदा यस्यां यावज्जीवं व्यवस्थितम् ॥ १७ ॥
अक्षयति । ब्राह्मणलिखिता प्रायो जन्मपत्री शिष्टानां भूतभवद्भविष्य द्वेधाय भवति तर्हि सर्व ब्राह्मण मूलभूतेन विधिना कृता जन्मपत्री भविष्य त्येवेत्याकाङ्क्षायां कवेरुत्प्रेक्षावचः । इयं हस्तरूपा जन्मपत्री साक्षादेव तत्र हेतुमाह-ग्रहाख्यादयो रेखा प्रदा यस्यां दृश्या एव रेखा शब्देन भ्रमर चक्रोर्ध्व रेखादि सामन्यतः सर्वा रेखामाचा रेखाश्रमरचक्राङ्का इतिपूर्वजवाक्यात् नरस्य दक्षिणहस्ते जन्मपत्री वामेराशिकुण्डलिका चन्द्राधिकारात्, उत्तरस्यां चन्द्राननभगवत्प्रतिपत्तेः तत एव दक्षिणे हिंदूकव दृक्षिणाभिमुखा लेखा वामे तु यवनवद्वा माभिमुखा इतिव्यक्तं, ननु ललाटपट्टे लिखिता विधाता षष्टी दिने याक्षर मालिका च तां जन्मपत्री प्रकटां विधत्ते दीपो यथावस्तु घनान्धकारे इति तथा “लिपिर्मलाटंतप निष्ठुराक्षरा तथा अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽार्थ जनस्यजागृतीम् इति नैषधीये । तथा यद्धात्रा निजभालपट्ट लिखितं स्तोकं महद्वाधनम् इत्यादौ भालपट्टे ब्रह्मणो लिखितमिति श्रूयते । अत्र हस्ते लेखनोक्ति स्वत्किमिति चेल्ललाटपट्टे गर्भमध्ये करयोः पिधानात् तत्रैव धातुर्लेखनं सामीप्याल्ललाटोक्तिः एतत्पत्रं रात्रौ दीपे राज्ञोऽग्रे सभायां लिखितमित्याद्युक्ति वत् यद्वासर्वाङ्गीण लेखनं हस्तयोरेव विस्तरेण तदवकाशात् किञ्चिल्ललाटेड पिति । तदुक्तं गर्भस्त्वधोमुखोदुःखी । जननीपृष्टिसम्मुखः । वध्दाञ्ज लिललाटे तु पच्यते जठराग्निना ॥ १ ॥
(<
" Aho Shrutgyanam"
""
""