________________
(२३) सिद्ध शिलाप्रतिष्टितं तत । ॐ इति अत्र सर्वाक्षराणां स्वरूपोपलम्मः कैवल्यशालित्वात्, अथवा अक्षरा अमरादेवास्तेषां स्वरूपं अवतीति ॐ. कारः- इन्द्रः अच्युतन्द्रस्तत्रनिश्चितं तदाज्ञापरत्वात्तेषां यद्वाहस्ते अकाररूपोवाम उकाररूपो दक्षिणो योगभोगात्मना प्रागुक्तः तयोर्योगे ॐ. कारपदवाच्यः अञ्जलिस्तस्मिन् अक्षराणां नाना ब्रह्मणां तत्त्वं तथा समुद्रेण मुनीन्द्रेण प्रणीतं सामुद्रिक सकलावयवलक्षणशास्त्रं तस्य तत्त्वं यथार्थता हस्ते स्थापितमित्यर्थः ॥ १५ ॥ अथ न केवलं सामुद्रिकस्यैव किन्तु सर्वनिमित्तानां तत्त्वमपीत्याह
राज्ञामाज्ञारहस्यस्य निश्चयो हस्तकाद्यथा
तथा निमित्तादेशानां निर्णयो हस्ततः स्मृतः ॥ १६ ॥ राज्ञामिति । आज्ञायां राज्ञा साक्षादुक्तायामपि तथास्फुरन्मानादिपत्र लिखितायामपि न निश्चयः कदापि विसंवादात् परं हस्तके पंजा इति यवनभाषा प्रसिद्ध; यथा निश्चयस्तथालापीति । तेन सर्वव्यहार मुखमङ्क संज्ञा हस्ते तद्याथा-एकद्वित्रिचतुः तख्यातर्जन्याद्यगुलिग्रहे । साङ्गेष्टानां पुनस्तासां संग्रहे पञ्चसंस्थितिः ॥ १ ॥
कनिष्टादिस्तलस्पर्शे षट् सप्ताष्टौ नव क्रमात् । तर्जन्यां दशविज्ञेयास्तदादीनां नखाहतौ ॥२॥ एकद्वित्रिचतुर्युक्ता दशज्ञेया यथाक्रमम् । हस्तस्य तलसंस्पर्शे पुनः पञ्चदशस्मृता ॥ ३ ॥ तर्जन्यादौ द्वित्रिचतुः पञ्चग्राहे यथाक्रमम् । विंशतत्रिंशञ्चत्वारिंशत्यञ्चाशत्परिकल्पना ॥ ४ ॥ कनिष्टाद्यगुलितले पष्टिसप्तत्यशीतयः । नवतिश्चक्नमाद् ज्ञेया तर्जन्यर्द्धग्रहे शतम् ॥ ५॥
२ अहर्न प्रतिमानां वज्रासन मुद्रायां अइति अधः स्थाप्यो वामकरः उइति उपरिस्थाप्यो दक्षिणकर इति। अकार उकारयोः क्रमबीजं यद्वा अर्हन् उरिति उपयोमेन शुद्धे न केवलेन युक्तः सिद्ध इति ॐ कारक्रमः ॥
"Aho Shrutgyanam"