________________
(२२) संसारादुद्धाररुपां तत्वन्--विस्तारयन् दानं चेद्गृह्यते, तदा दानीनामनुग्रहः स्यादिति अष्टवर्ष यावत् पाणियुगलं प्रतिबोध्य श्रेयांसकुमारातू प्रत्यप्रेक्षुरसेन पूर्ण कारयन् श्री ऋषभो भगवान् परतीथ्र्यैरपि भागवतादिस्वशास्त्रे वर्णनीयः श्रीजिनप्रथमोऽर्हन् सः जगत् प्रतीतः वो युष्मान् पायात् पापादवतात् । अत्रापि पाणियुगलस्यैव साध्यसाधकत्वं ज्ञापितम् ॥ १३ ॥
.अथ पुनर्हस्तप्रशंसामाहमन्त्राक्षराणामोंकारे यथा तत्त्वं प्रतिष्ठितम् ।
तथा सामुद्रिकस्यापि तत्वं हस्ते निवेशितम् ॥ १५ ॥ मन्त्रेति । मन्त्राः देवाराधनशहास्तेषामक्षराणि अकारादीनि तेषां तत्त्वं स्वरूपं, ॐकारे स्थिरीभूतं तस्य सर्वाक्षरमयत्वात् । प्रणव श्छन्दसामिवेति सर्वादिमत्वात, अग्मि तच्च बीजत्वेन ज्योति: स्वरूपत्वाच्च यद्वा न क्षरतीत्यक्षरं बह्म तच्चैकमपि ज्ञेयनानात्वेनानेक तत् स्वरूपं ॐकारे परमशुद्धब्रह्मवाचके लीनं अ इति अर्हन् अः अकाय: सिद्ध: आ आचार्य उ उपाध्यायः । तयोगे ओम् इति मुनितस्यानुस्वारे ॐ इति सर्व ब्रह्माधिक्यात् पञ्चपरमेष्टिबीजत्वात् यद्वा अक्षैरिन्द्रियैराजंतेड इत्यक्षरा जीवास्तेषां तत्त्वं कारे सदा सिद्धब्रह्मणिनिश्चितं. तत्रैव निष्कलङ्क स्वरूपलाभात्, अथवा नक्षरतीत्यक्षरमेकं अ इति संवृतरूपं आकारादीनां तस्यैव प्रकारत्वात् अर्हद्वाचकं विश्वव्यापकं परमात्मज्योतिः स्वरूपः उः इश्वरोव्रताचरणोपलब्धकेवलरुप उपयोगसिद्धितया सर्वतः समर्थः सिद्धस्तयो ोगे ओ इति अनुस्वारः शिवबीजं निराकारं अर्द्धचन्द्राकार
२ अकारस्य साधकरूपत्वेन उकारस्य सिद्धरूपत्वेन सर्वाक्षरवाच्य वस्तूनां रूपद्धयेऽ न्तर्भायात्.
१ अर्हन संवरस्वरूपी उपयोग सिद्धः स्यादिति तत्त्वं तद्रूपमर्द्धचन्द्राकार सिद्ध शिलोपरिबिन्दुरूपमनाकारामितिभाव । ॐ नमः सिद्धमिति मातृकादौ तस्मैनमः सपुनर्विष्णुः शकवित्याकाङ्क्षायां विवृत्याह सिद्धमिति सिद्धाश्चतुर्विशति संख्याका ज्योतिः शास्त्रे जिन संख्यावत् ।
"Aho Shrutgyanam"