________________
(२१) सामात् प्राधान्यं तेनद्वयोरपि लक्षणं वीक्ष्यमञ्जालविधानादर्शनमपि अत एवाह-शंकराचार्यः सौन्दर्यलहरी नाम्नि भगवती स्तोत्रे त्वदन्यः पाणिभ्याम । भयवरदो देवतगण इति । तेन पूजाभोजनदानशान्तिककलापाणिग्रहस्थापना. चौक्ष्यप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । वामोऽहं रणसम्मुरवाङ्कगणनावामाङ्गशय्यादिकृत् दूतादिव्यसनीत्वसौ सतुजगौ चोक्षोस्मिनत्वं शुचिः इत्यत्रद्वयोरप्युपयोगात् । अत्र पूजादानयोर्मध्ये भोजनग्रहणात् यथा पूजादानशान्तिकर्मोत्तरं कृत्वाभ्यासस्तथा भोजनोत्तरमेव करवीक्षणं तस्य सामुद्रिकत्वेन पुरुषकलान्तीवादित्यपिज्ञेयम् । पूर्व दक्षिणकरोक्ति पुरुषप्राधान्यात् ॥१२॥
अत्रार्थे प्राचां वचोरचनामप्याह
राज्यश्रीर्भवताऽर्जिताऽर्थि' वहस्त्यागैः कृतार्थिकृतः। सन्तुष्टोऽपि गृहाणदानमधुना तन्वन दयां दानिषू ।
इत्यब्दं प्रतिबोध्य पाणियुगलं श्रेयांसतः कारयन्
प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात् स वः श्रीजिनः ॥ १४॥ राज्येति । श्रीऋषभस्वामिना दीक्षाग्रहणे तदांनी दानीयदानीन्द्रदिव्यवहारस्य बाहुल्येनाभावाच्छुद्धाहारदाने लोकस्याज्ञानात् वर्षे यावत् नाहारः प्राप्तस्तदा कवेरुत्प्रेक्षा वाक्यमिदम् । पूर्वं वामस्य स्त्र्यङ्गप्राधान्येन हठबाहुल्यात् तं प्रति श्रीऋषभस्योक्त्या समाधिः राज्यश्रीर्भवता धनुर्द्धरणादिना बाणप्रयोगे पुरस्सरेण सत्यवता भवता अर्जिता स्वभोग्याकृता साम्प्रतं तसाधनेन " मोह पराजयाय सज्जीभव" तदावामस्यातिशय श्रवणादृक्षिणहस्तेदर्मनसि जाते तं प्रत्यपि भगवतो भणिति । रर्थिनिवहो भवता सांवत्सरिक दानकर्मणि यथाभीष्टदानैः कृतार्थीकृतः सन्तोष प्रापितः वित्तपरित्यागे महासाहसात् ततः अहं सन्तुष्टोऽपि तवोपरिदानं संप्रतिगृहाण, किं विलम्बसे नहि साहसवतां भिक्षायोग्या तथापि दानीनां दयां
१ हठबाहुल्यः । वामंजाणु अंचेइ दाहिणं जाणुं धरणितलमित्यागमात् प्रणिपाता करणेन वेद्यम् ।
"Aho Shrutgyanam"