________________
( २६ )
आयुर्लेखा तस्यामेव स्वभाव लक्षणात् कर्मरेखाराज्यैश्वर्य दरिद्रतारूपाआयुरेखा ऊर्ध्वरेखा परपर्याया । व्ययरेखाकलहमृत्युदीक्षा ग्रथिलता गृहाधिकार लक्षणा घातस्थानतया त्रिशूलरेखयावा संतान रेखायां चतुष्किका संभवे रिपुरेखा । शेषास्तु स्पष्टा एव । हस्ततलमध्ये पूर्वापरायते आयुर्धनरेखे दक्षिणोत्तरायते पितृरेखोर्ध्वरेखेतथा अष्ठोन्मुखतर्जन्युन्मुख कनिष्ठोन्न्रख ऊर्ध्व रेखास्तिर्य गायतास्तथा विद्यारेखा राक्षसकोणात् करभान्निर्गत्य कोशोन्मुखी सर्वाभिरेताभिर्द्वादशभवन संपत्ति: सूर्यपूर्वस्यां शुक्रोदक्षिणस्यां पश्चिमायां शनिः उदीच्यां गुरूः ऐशान्यां मङ्गलः आग्नेय्यां बुधः सामान्यतयास्थित इतिस्थापना दक्षिणहस्ते अत्र तूर्यभवने बंधुभावः । भातृरेखाप्रत्यासत्तेः प्रकरणे -
मणिबंधा उपयटापए सिणी जाव अइगयारेहा बहुबंधुसमाइन्नं कुलवंसं निहिसे तस्स ॥ १ ॥ इतिवचनात् षष्टभवने रिपुभागो घातस्थान बाण प्रहारादिरेखा सामीप्यात् । आयुरेखा सम्मुखैस्तैर्नलभ्यं मातृपक्षतः इति हस्त चिन्ह सूत्रवचनात् तत् संमुख सप्तमभवने कलहरेखास्थानात् । चाष्टमभवने आयभावोऽपि कनिष्टा यदिदीर्घास्यादूर्ध्वरेखा समाश्रिता व्यव - सायात्तदा लाभोयशस्वस्य महोज्वलम् ॥ इति हस्तचिन्ह ग्रन्थात् । जन्मनि यो नियन्त्रान्निर्गमदुःखेन मृत्युरेखा पुरोभावेनाल्पमृत्युस्तथाजन्माप्यष्टमभवने तत एव जन्मनि मृत्यौ वा सुतकत्वे प्रतीते ग्रहेषु सूर्य सूर्य सुतयोः सामुद्रिके तद्दिशि अवस्थानं ज्योतिः शास्त्रेऽपि तथाभणनात्, प्राच्या दिशा रविसित कुजराहु यमेंदु सौम्यावाक् पतय इति । शुक्रो
१ गृहवन्धरेखास्थानत्वात् व्ययः ततः पश्चान्मध्ययां उर्ध्वरेखया धनवृद्धेः
आयः भावः
२ मणिबन्धात् पितृरेखा, मध्यात् द्वे ऊर्ध्वरेखे एकामध्याङ्गता द्वितीया नामिका मिति द्वे रेखे || ३ मुष्टिप्रहाररूपम् ।
१ मघायापितृ दैवतायाः स्थानात् अल्पमृत्युः आयुर्लेखायां तनुस्वरुपात्तदुद्भवस्थान तया का तीर्थस्य सद्भावाज्जन्मापि तद्भवनरेखाभिर्विचार्यम् ।
२ सूर्यसुतः पश्चिमायां नक्षत्रचक्रे अश्लेषा सर्प देवता तत् स्थानात् शतिरपि सर्परूपत्वात्, मुष्टौ कनिष्टाग्रस्य शनैस्तत्र न्यासाच्च ।
"Aho Shrutgyanam"