________________
( १८ )
लक्खण
तासामपि लक्षणत्वं ततः शास्त्राणां विप्रतारणामात्रमेतत् स्वभावेन हस्तपादाद्यवयववत् रेखाकारसंभवात्तदुपरिविकल्पशिल्परूपं, अपि च यस्य जन्म तो न हस्तावयवः छेदोवाकरस्य तस्य कथं शुभाशुभज्ञप्तिर्मूलत एव तदभावात् 1 नराणां हस्तलक्षणे रेखासाफल्येऽश्वमहिषवृषभादीनां तद भावात्कथं शुभमन्यद्वाज्ञेयम् । अन्यच्च रेखाया रछेदे भेदे वेधे वा तत् फलमस्ति नवा, आद्ये छेद रेखावैयर्थ्यात्, द्वितीये मूल रेखाया एव वैयर्थ्यात् यदि तदुद्भव एव आपातात् रामस्यात्तदा सर्वरेखाणामापातजन्यत्वेन न लक्षणशास्त्रोपयोग इति । अत्रोच्यते एवं सति महोदयास्तु वक्रादिषु स्वभावत एव संचारात् तन्निमितजन्यशुभाशुभानवबोधात् ज्योतिःशास्त्रस्य तथा शकुनानामपि स्वभावे नैव जल्पनात्तन्निमित्तकफलाभावाच्छकुन शास्त्रस्य स्वभावादेव पुण्ये कर्माणि पापेवाप्रवृतेः फलाभावाद्धर्मशास्त्रस्यापिवैफल्य प्रसङ्गात्, सकलप्रामाणिकपर्षद प्राप्त प्रतिष्टज्योतिर्वैद्यकनीति शकुनधर्मशास्त्र द्वेषेण सर्वव्यवहारलोपः, तेन गौरवाल्लक्षणशास्त्रं प्रमाणमेव " वंजण गुणोववेयं तथा छत्तचामरपडागजूअजवमंडिया ” इत्यादि सिद्धान्तात् । श्रीहर्षोऽपि नैषधीय " काव्ये त्वदुदाहरणाकृतौ गुणा इति सामुद्रिक सार मुद्रणा " इत्पभाणत्, यस्तु कचित् फलविसंवादः सनैमित्तिकस्याज्ञानदोषात् भाग्यानुदयेन विपर्यय कथनजन्या नतु तावता शास्त्रदोष: तस्य सर्वज्ञमूलकत्वात्, अतएव मन्त्रजापन्यास पूजाविधानोक्तिर्नेमित्तिकदूरितध्वंसाय । वाह्याकारेऽपि काणान्धकरचरणभङ्गादौ भाविनि वर्तमानेऽपि गुह्यतिलकादौ लक्षणेन परिज्ञानमान्तरस्वभावेऽपि दातृत्व कार्ययादौ सामान्येन सूचनात् — शास्त्रं हितायैव राज्ञः श्रेष्टिनो वाभाग्यरेखा साम्येऽपि जातिविशेषाद्भेदोर्ध्वरेखादिफले वक्ष्यमाणे तथानिर्णयात्, रेखाणां तत्तदर्थबोधकत्वं तु व्यवहारवाहिकालेख्य के व्याकरणे कुण्डलनायां पदच्छेदादौ दृश्यत एव तत् कथं तासां सर्वथा वैथ्यर्थं स्यात् । ज्योतिः शास्त्रेऽपि ग्रहाणां रेखाभिः फलज्ञानात् । छन्दः शास्त्रे रेखया प्रस्तारे लध्वक्षरज्ञानात् यवनशास्त्रे रेखामात्रेण प्रथमवर्णन्यासात् । वेदऋाचे ऊर्ध्व रेखया
CE
""
" Aho Shrutgyanam"