________________
( १७ )
तेन प्राप्तव्यवस्तुनि लभ्यालभ्यज्ञानाय वारादि चक्रं युक्तमेव स्पष्टबाधात्, वारभणनेऽवसरस्तेन तिथि: प्रतिपदादि र्वा ख्यादिरुभयमपि ग्राह्यम् ।
अथ स्पर्शनमाह - शुभाशुभ इति स्पष्टं चैतत् पुरस्तादिति ॥ १० ॥ अथ सामुद्रिके रेखाणामेव मुख्यत्वात् प्रायो बालैरपि ज्ञातुंशक्यत्वाच्च तृतीय रेखाविमर्शनेन ज्ञानमाह
--
रेखा विमर्शनं साक्षाद्वक्ष्यते प्राक्तनोक्तिभिः ।
इति त्रेधाकर ज्ञानात् सर्व वस्तु प्रकाश्यते ॥ ११ ॥
रेखेति । विमर्शनमिति सर्वत्र योज्यम् । दर्शनविमर्शनम् । स्पर्शन विमर्शनम् | रेखाविमर्शनञ्च भावनया अभ्यासदार्थेन अविसंवादवाक्यत्व सिद्धेः । क्वचित् सामान्योक्तौ विशेषपरत्वं सूत्रस्य क्वचिद्वैपरीत्यन्तत्तद्रव्य क्षेत्रकालभावैरिति ।
ननु वृक्षाणां पत्रादिषु मधुकराद्युपलेषु आकस्मिक्यः वस्त्रादिषु पौरुषेया रेखाकृतयो नाना दृश्यन्ते नहि तास्तेषां शुभाशुभसूचका एकाकारत्वेऽपि वृक्षाणां पत्राणां पुष्पाणां चीरजीवित्त्वात् केषाञ्चिच्छीघ्रपातित्वाच्च । एवं सौभाग्ये दौर्भाग्ये आरोग्यानारोग्यसारूप्यासारूप्ये सविस्ताराऽविस्तारत्वे सकलाकलत्वे वाचे सर्वत्र स्वभाव एव गमको वायोस्तिर्यग्गमनवत्, वह्नेरूर्ध्व ज्वलनवत्, जीवानां भव्याभव्यत्ववद्वा कचनसाम्राज्यभूजोऽपि न तादृक् रेखाकारः क्वचिद्वरिद्रस्यापि तादृक् शुभरेखा संभव इत्ति व्यर्थं लक्षणशास्त्र किञ्चानेन बाह्याकारो लक्ष्योऽभ्यन्तरः स्वभावो वा नाद्यः गौरत्व श्यामत्व उच्चत्व म्हस्वत्वादीनां बाह्याकाराणां प्रत्यक्षत्वेन लक्षणशास्त्रस्य वैयर्थ्यात्; न द्वितीयः अभ्यन्तराणां गाम्भीयौदा धैर्याणां नानात्वेन सर्वात्मना लक्षयितुमशक्यत्वात्, तथा राज्ञोपेक्षया श्रष्टिनो नभाग्यं, प्राकृतलोकापेक्षया तु भाग्यं तथा च किं हस्ते भाग्यरेखयाभाव्यं भाग्यरेखा भावेन वा यदि च सर्वे कररेखाभिरेववेद्यं तदा ललाट- नासिका हृदयोष्ठपादरेखावैफल्यं तथात्वेकर रेखाणामपि वन्ध्यत्वे को निषेद्धा । अथ तासामपि ज्ञापकत्वं तदावार्द्धके जरायोगात् सर्वत्र शरीरे रेखोदयात् किंन
हस्त...२
"Aho Shrutgyanam"