________________
(१६)
इति चतुर्द्धानिमिते क्षणम् । बलाबलमपि निमित्तानां निमित्तान्तरावलोकेनैव प्राप्यते अत एव शकुनदर्श नेऽपि सुमुहूर्तसुदिनविमर्शः प्रोक्तः सुदिना भावे शकुनस्यापि वर्जनात् । यतः
क्षीणचन्द्रतिथिदुस्सहानिलदूषितं घरणिकम्पनादिना ।
पर्ववज्जलदसंकुलाम्बरं वर्जयेत् शकुनदर्शने दिने ॥ १ ॥ रेखाणामपि पूर्णापूर्णफलत्वं तत्तत्तिथिवारनक्षत्रराशिचक्रभावनयैव तद्विरोधे स्वल्पफलात्, यदि च न रेखाभिव्यक्तिस्तदा तिथ्यादेरपि स्वल्पफल तेत्युभयो दर्शनमुचित स्याद्वादस्थैव प्राधान्यात्, तत एवाग्रे स्वराशि परिमेलकात् यथा स्थानयोगाग्रहन्यासादिति च सूत्रं स्पष्टम् ।
हस्तेक्षणे वारभचक्रलग्नप्रेक्षादिकं दर्शनमामनन्ति ।
शुभाशुभे स्पर्शनतोऽङ्गुलीनां तथाधुमानादि निवेदनीयम् ॥१॥ हस्ते क्षणे हस्तदर्शने दर्शनानुजायमानवाच्चिन्तनश्च वारादि चक्रविमर्शो दर्शनमेवेत्याम्नायविदः सामुद्रिकावदन्ति । लक्षण परीक्षायां तिथ्यादेः कालस्यापि तत्तत् शुभाशुभनिश्चय गमकत्वान, तत एव करवीक्षणमपि शुभदिन एव सर्वकार्ये काल १ स्वभाव २ नियति ३ पूर्वकृत ४ पुरुषकार ५ पञ्चकस्य साधनवायां कालस्य मुख्यहेतुत्वा.1 । यदाहुः पाञ्चः
शोभने हस्तनक्षत्रे ग्रहे सौम्ये शुभे दिने ।
पूर्वाहणेमङ्गलर्युक्ते परीक्षेत विचक्षणः ॥ १॥ नन्वत द्वचनात् हस्तवीक्षणे सुमुहूर्ताप्ययोगः सिद्धयतु पर हस्ते तिथ्यादि न्यासः किमर्थ इति चेत् न जातिदिग् द्रव्यराश्यार्देशिते वक्ष्यमाणत्वात्, पुण्यप्रकाशोऽपि तत्तत्तिथ्यादि न्यासभाव नयैव गभ्यः । राख्यव्यवहारिकथानके दक्षिणदिशोलभ्यश्रवणात् ।
अत एव सिद्धान्तेऽपि । उदय खय खउन समोर समाइजच कम्मुगो । भणियादच्वं खित्तंकालं भवं च भावं च संपज्ञ ॥१॥
"Aho Shrutgyanam"