________________
(१५)
" आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि"
इत्यादि कल्याणमन्दिरस्तवने एवं शकुनेषु तत्तदर्शने तद्भावनयैव फलं द्रष्टव्यम् । यथासौवर्णिकसंग्रामनाम मात्रा मण्डप दुर्गारोहे सर्पमस्तके दुर्गादेव्याजल्पने भीतया अपशकुनोऽयमिमि विमृश्य विलम्बाय तत्रै वस्थितम् । तावता तत्रागतेन विप्रेण तच्छकुन चेष्टां दृष्ट्वा प्रबोधिता सा हे पुत्रि ? मा विलम्ब कार्षीः शुभशकुनमेतत्, तव सुनोमहोदयोऽस्मिन्नगरे भावीति । तदा कर्ण्य तयातद्वचः प्रमाणी कृत्याग्रे चलितं तत् पुत्रः कति चिद्वस्तव तिष्टन् महामन्त्री पातिशहिर्जज्ञे इति दर्शनेऽपि भावनोपरि निदर्शनम् । एवं केनचिद्ग्रामाधिपेन नगरप्रवेश शबसम्मुखमिलने वयमेतस्मान्न गरात् बहुपभोगे भुक्ते मृता एव निर्गमिष्यामो नतु जीवन्तोऽपीति भावनया प्रविष्टेन चिरं राज्य भुक्तामित्यपि दृष्टान्तः । चूडामणी शास्त्र---" पिणे मित्तिएण जेवा उत्तरबुद्धीर ए अत्तणोग्गहि या ते तस्स उत्तराणीय सेसा अहरी कया अहरा" ॥ १ ॥ इत्यत्र यस्यादृशी श्रद्धा तादृशमेव फलमिति ॥ तेन हस्तदर्शने केवलेन किञ्चित् तद्भावनायां प्रार्तदर्शनजन्यायामेव पुण्यफलादेय इति आवश्यक तिथ्यादिदर्शनं युक्तमेव-रेखाभावनायां तिथ्यादेरुपयोगात्, नचानवस्थ ॥ शकुनरुतेजायमानेऽपि भवेदिडायां परिपूरितायां सर्वोपि वामः शकुनः प्रशस्तः स्याद् पिङ्गलायां परिपूरितायां सर्वेपिसद्यः शकुनः प्रशस्तः इति स्वरोदयानुसरणात् “ पक्षीकृकलासादिपतनङ्गे विद्यारुपेऽपि तिथिवारादिसापेक्षत्वेन फले विशेष " इति यथा योगं यथावसरं निमित्तान्तरान्वीक्षणेऽप्यदोषात् । तत् एव ज्योतिःशास्त्रे सुमुहूर्ते ऽपि शकुने क्षणोपदेशः । यदुक्तं
उषा प्रशंसते गर्गः शकुनं च बुहस्पतिः ।
अङ्गिरामनउत्साहं द्विजवाक्यं जनार्दनः ॥ १ ।। १ शाहयोयवन राज विशेषा स्तेषांपतिः पति शाहिः स्वार्थे.
१ ईडस्तुति धातो दाईं कार दर्शणाम् लस्थत्वं सज्ञाविशेषात् यदृच्छाशद्धे व्युत्पत्ते रमावे पि-बोधात् ॥
"Aho Shrutgyanam'