________________
( १४ )
अत एवं श्रीमदर्हद्भगवतः प्रतिबिम्बदर्शनादद्रिकुमारस्य यवनेशस्व बोधिलाभः . श्रीसूत्रकृताङ्गनिर्युक्तौ श्रीउपदेशरत्नाकरेऽपि श्रीजिनप्रतिमाकारमत्स्यदर्शनेन जीवानां स्वर्गमादिप्रतीतमेव साधुदर्शनेन श्री श्रेयांसमृगापुत्रादयोऽनेके महोदयभाजः सिद्धांतसिद्धाः । शकुनशास्त्रेऽपि ----
जंबूचासमयूरे भारदवा एतहेवन उलेय ।
दंसणमेव पसत्यं पयाहिणो सब्द संपन्नीति " ॥ १ ॥
6
. इष्टदर्शन शुभायेति नैषधीये श्री हर्षोप्याहजयजय महाराज प्राभाति किं सुषभामिमां सफलयतमां दानादक्ष्णोदरालस पक्ष्मणोः । प्रथम शकुनं शयोत्थायं तवास्तुविदर्भजा | प्रियजनमुखाम्भोजा तुङ्गं यदङ्गनमङ्गलम् ॥ १ ॥
इति तेन वारादिदर्शनं न किञ्चित्फलम् । किञ्चहस्तदर्शनं निमित्तमेव -तेन शुभोदय ज्ञानात् किं वारादिदर्शननिमित्तान्तरानुसरणेन अनवस्थापत्तेः; पुनरन्यस्य तिथ्यादिस्थानप्राप्तावपि निमित्तस्य वीक्षणप्रसङ्गत् तथा यदिरेखाभिरेव शुभाशुभज्ञानं तर्हि किमजागलस्तनकल्पेन तिथ्यादिविचारिण; अथ यदिकस्यापि रेखाणामव्यक्तिस्तदा तिथ्यादिस्थाननिर्णयेऽपि कथं शुभाशुभ बोधस्तिथिस्वभावादिवेतिचेत् अत्रापि-तिथिस्तु युग्माः खलु पक्षरन्ध्रभवेद्वितीया दशमीं च हित्वादर्शश्च तासां विषमा वरिष्टा - स्मृता ॥ मुनीन्द्रैर्नवमीं विहाय इतिज्योतिःशास्त्रानुसारमात्रेण सन्तोष्टव्यम् । न च हस्ते तिथ्यादि न्यासं विना कथं तल्लाम इति वाच्यम् । यद्दिने हस्तवीक्षातत्तिथ्यादिनैव कार्यसिद्धेः किं हस्ते तिथ्यादेर्दर्शने नेति । अत्रोच्यते-दर्शन शह्वेन न केवलं दर्शनमेव किन्तु अवलोकनं तच्चिन्तनं च उभयमपि तथा च अर्हत्प्रतिमा दर्शनेऽपि तद्ध्यानं विना न किञ्चित् फलमिति स्पष्टं
नैषधीयमहाकाव्ये सर्ग - १९ - २ - श्लोकः
"Aho Shrutgyanam"