________________
उदात्तस्वरस्मायतरेखयास्वरितस्य संज्ञानात् । ' पावइलाहालाहं ' इत्यादि प्राचां वाचां विस्तरेण हस्तरेखाभिर्गुढबुद्धया सम्यग् रित्या विमृश्यते चेत् सर्वं प्राप्यते, श्रीभगवत् प्रसादात् नान्यथा देशतस्तु हस्तानुवादरूपं प्रमेयं ललाटादिरेखाभ्योऽपि विशिष्टतरं ज्ञायते ततो युक्तमिदमुक्तं " कुलं जाति तथा देशमाकारञ्जन्मजान् " ग्रहान् इत्यने सूत्रतएव यदपि बार्द्धके रेखा प्रकटनं तत्र न वयं वच्मः । सर्वारेखा लक्षणमेव किन्तु सामुद्रिक शास्त्रोक्ता एव नहि लेख्यकादौ रेखासार्थकचे बाल्यचापल्यात्कृतरेखा अपि तादृशा इति जन्मतः छेदाद्वा हस्ताभावे तच्छुभाशुभज्ञानं निमित्तान्तरादेव जन्मपत्राद्यभावे हस्तादेरिवेति एतेनाश्वमहिषादि शुभेतरज्ञानं निमित्तान्तरादेवेति गदितम् । तेषां जन्मपत्रस्याप्यभावात् रेखा छेदादौ विशिष्ट फलाभावात् फलहीनत्वं न पुनः सर्वथानिष्फलत्वं छिन्नभिन्नादयोऽल्पदा इत्याचार्यवचनात् इतिसिद्धलक्षणप्रामाण्यम् ।
नन्वेवं भवतु तत् सिद्धिः परं लक्षणशास्त्रं विमृश्यतां ज्योतिः शास्त्रं वा किमुभयेनेति चेत् व्यक्ततरबोधार्थ सूर्यसत्यपि उपनेत्राश्ममण्डलोपादानवत् कषपटे सत्यपि स्वर्णस्य छेदनतापताडनादि परीक्षान्तरवद्वासत्यानां तथा प्रवृत्ते लक्षणे सत्यपि नीति विना तद्वैयर्थ्य तत्र केनचिद्राज्ञा भारवाहकस्य राजलक्षणवतः प्रत्यहं हस्तद्वयेन शीर्ष कण्डवा स्फेटयितुः करछेदे कारिते सभारवाहको राजा बभूवेति निमित्तेऽपि निमित्तान्तरं सहकारीष्टम् । अतएव श्री वीरेण भगवता द्वादशाद्विकदुर्भिक्षहेतुनिश्चये ज्योतिर्विद्भिःकृते दुर्भिक्षाभावे श्रीगोतमस्वामिना पृष्टेन प्रसादीकृतं ज्योतिर्विदः सत्या एव परं अमुकव्यवहारिपुत्रजन्मना ज्योतिः शास्त्रवाक्यबाधक तत् पुण्यैर्महद्भिभिक्षाभाव इति कथानके द्वयस्यापिप्ररुपणासत्यापिता । अतः प्रागेवोक्तं-स्याद्वादादेवार्थसिद्धिरिति सूक्तं रेखाविमर्शनम् । तच्च साम्प्रतीनजनानां केषाञ्चितू मनसि श्रद्धा भवति नभवति वेति मत्वा पुरातनाचार्यश्लोकैरेव वक्ष्यते ॥१०॥
अथ भूततीर्थशठवद्वर्तमानाहतोऽपि स्मरणमुचितं देशविप्रकर्षेऽपि समयप्रत्यासत्तेः यद्वा तुलादण्डन्यायेन वर्तमानस्य मध्यस्थस्यग्रहेऽतीतानागतयोरपि
"Aho Shrutgyanam"