________________
(१२) स्त्रीस्वभावादिनिर्णयोप्यन्तर्भूतः हस्तद्वयायुरेखान्तयोजन इत्यादिना अञ्जलिवीक्षणस्यैव वक्ष्यमाणत्वात् योगार्धे पर्यकासन्ने भोगार्धे विवाहाद्यर्थे हस्तद्वययोगात्, अत एवागमे--" जुवह जुवाणे हत्थेण गिहिणिज्जा" इति करयल परिग्गहियं दसनंहसिरसावत्तं मन्थए अंजलि इति " || हेतू भयास्मकस्य ॐनम इत्यस्य ध्यानेन उभयत्र दर्शनादि त्रयस्य योगादितिभावः । यद्वा अर्थत्यव्ययमानन्तर्यार्थे पुरुषः प्रथमं दक्षिणं तदन्तरं वाममित्युभयसंग्रहेऽपि दृष्टिन्यासे पुरुषत्वात् , पदोक्षेपरितिवत्कमोऽयं तेनस्त्रियाः पूर्वं वामस्य ततो दक्षिणस्येत्यर्थात् सिद्धम् । यद्वा वामाक्षीती पदभिन्नमेव व्याख्येयम् । परमेकस्यैव हस्तवीक्षणं पुंसः स्त्रिया वेति न चिन्त्य उभयेनैव सर्वज्ञानसिद्धेः । अत एवबालस्यापि तृतीये दिने चन्द्रसूर्ययोरुभयोर्दर्शनमागमे भगवत्यां महाबलाधिकारे पर्युषणाकल्पसूत्रे च भणितम् ननुदर्शनक्रमस्य किं भाविव्यञ्जक मात्रेण लक्षणे नार्थोपलम्भात् पौर्वापर्यानुपयोगादिति चेन्न; श्रद्धाविशेषे “यादृशीभावना यस्य सिद्धिर्भवति तादृशिति" इतिवचनात् । वाग्भटे शारीरेप्युक्तं-पादशोफो विदाहोत्र श्रद्धाचविविधात्मिका मातृज ह्यस्य हृदयं मातुश्च हृदयेन तत् । संबद्धं तेन गर्भिण्या नेष्टं श्रद्धावधीरणं । देयमप्यहिते तस्यै हितोपहितमल्पक। श्रद्धाविधाताद्गर्भस्य विकृति चुतिरेव वा इति फल विशेषात् दक्षिणकरयोगस्य भोगसाधनत्वात् योगप्रधानस्य श्री आदिदेवस्य ध्यानं अत " वामामनन्ति मुनयः परमं पुमांसमादित्य वर्णममलं तमसः परस्तात् इति; सूर्यस्वरूपतया श्रीभक्तामरस्तोले श्री ऋषभप्रभोः कथनं सूर्यसहस्रनामपाठे आदिदेव इति नान्नोऽभिधानात् जगत्कर्म साक्षिणस्सर्वप्रकाशकस्य सूर्यस्य दक्षिणांश एवौचित्यमतः पूर्शवंशविस्ताराय महोदयसाधन सूर्यस्वरूप श्रीआदिदेवस्य ध्यानाद्दक्षिणहस्तवीक्षा तदन्तरं भोगिनां स्वामिना सेवितत्वेन श्रीपार्श्वस्य दशावतारस्वरूपकमनीयाञ्ज नज्योतिर्मयविलासप्रधानावष्णुरूपस्य ध्यानाद्वामहस्तवीक्षासहतुका तेनैव राज्यश्री भक्तेत्यादिना भोगोक्तिर्वामहस्ते त्यागैः कृतार्थीकृत इत्यनेन योगोक्तिरिति यत्तु बालस्य " चंदसूरदंसाणियं ” इत्यागमोक्तं तद्वालस्य
"Aho Shrutgyanam"