________________
(११) __ सर्वाङ्ग इति । शिरः प्रभृति पादाङ्गुष्टपर्यन्तलक्षणपरीक्षाहि कालस्य वैषम्यात् सर्वावयवनिष्टान कर्तुं शक्यते मेधापरिहानेस्तां विना शुभाशुभनिर्णयोऽपि नैवेत्युपकारपरेण तत्तद्विद्या मूलर्षीणां गौतमादीनां विद्याग्रन्थेषु अवश्यं स्मरणं कार्यमेवेत्यत्रापि स्मरणीयेन श्रीसमुद्रसूरिणा परमतेऽपि गौतमादिवदाराध्येन मुनिना मन्यते, इति मुनिर्जानपात्रं तेन का तेन कारणेन सर्वाङ्गप्रधानत्त्वात् सर्वाङ्गावयवस्वरूपमयत्वात् सर्ववस्तुप्रकाशकत्त्वात्, सर्व कार्य साधकत्वाच्च भोजनक्रियादिनामुखादेरप्युकारकोहस्तः प्रकटीकृतः तपोविधाने प्रसन्न चन्द्रादेरिव ऊद्धकरणात् अत एव वैद्याः सर्वाङ्गारोग्यता हस्ते नैवावधारयन्ति । सिद्धाअपि औषध मन्त्रादौ हस्तसिद्धिमेवादिशन्ति । भूदेवा अपि हस्तं प्रसार्याशीर्वादं निगदन्ति दानिनोऽपि हस्ते जलादिना धनसंकल्पं कारयन्ति ॥ ७॥ __ अथ हस्तस्य सकलज्ञानमूलतत्वदर्शनाय यथावसरं प्रयोगाय ज्ञानं त्रिधाः प्ररूपयति ।
दर्शनात् स्पर्शनाचापि तथा रेखाविमर्शनात् । __ हस्तज्ञानं त्रिधा प्रोक्तं पुरातनं महर्षिभिः ॥ ८ ॥ दर्शनादिति । तथा हि वेद्यो दर्शनात् १ स्पर्शनात् २ नाडी विमर्शनात् ३ निरोगत्वं निश्चिनोति तदत्रापि ॥ ८ ॥ प्रथमस्य सम्मतिमाह
प्रातः प्रथममेवाथ स्वपाणिं दक्षिणं पुमान् ।
पश्येद्वामं तु वामाक्षी निजपुण्यप्रकाशकम् ॥९॥ प्रातरिति । पुमान् प्रथममेव-अन्यकार्येभ्यः आदी दक्षिणं तु पुनवामं स्वं पाणिं पश्येत् इत्यन्वयः ।
तत्र विशेषणद्वारा हेतुः वामाक्षी च निजः स्वात्मा च वामाक्षी निजौ तयोः पुण्यं शुभं तत् साहचर्यादशुभं पाप यद्वा पुण्यशद्वेन धर्मः, स्वभाव स्तस्य प्रकाशकं व्याकमादर्शवत् । तथा च पुरुषस्य प्राधान्यादेव निर्देशात्
"Aho Shrutgyanam"