________________
(१०) यथाप्रवृतकरणादिरूपासम्यक्त्वभूमि नयति । यस्यां ज्ञानमुदेति प्राप्तेऽपि केवलज्ञाने क्रियैवानन्तर्येण शिवसाधिकेतिपर्यन्ते ध्यानादिक्रियारम्भ इत्यादिग्रन्थान्तरात् क्रियायां मुख्योहस्तस्तदेवाह-प्राप्तःउदात्तादिस्वरन्यासपूर्व वन्दनादिसूत्रभणनं वेदोच्चारोवा शौचं स्नानादियत्पूर्वकः पूजाजपशास्त्राध्ययनादिरभ्यासः सकलपरमार्थरूपशीवसाधनं प्रवर्तते; नच जैनानां स्वरप्राधान्यं नास्तीतिवाच्यम् | " नाणाधोसानाणावंजणा " इति भगवत्यां तदुक्तेः प्रकरणादावपि " नमोस्तुवर्द्धमानाय " इत्यादि स्तुतित्रयं वर्द्धमानस्वरेण पठनीयमित्यादौ स्वरापयागात् , अतएव पाक्षिकप्रतिक्रमणे संसारदावादिस्तुतिपाठे उच्चैघोषः पारंपर्यसिद्धः । श्रीमद्भगवद्वचनेऽप्यौदात्यं मेघगम्भरिघोषत्वमिति स्फुटं, तदर्शनात् एवं ज्ञाताङ्गे शुकेनोक्तं " सोय मूले धम्मे पणते " श्रीथावच्चापुत्र भगवता भणितं-." विणयमूलेधम्मे पणत्ते " इति दर्शनान्न भ्रमणीयं वादाधिकारात्, अन्यथा द्रव्यभावाभ्यां मनोवाकायैः शौचंदशविधयतिधर्मे श्रूयत एव " श्री स्थानाङ्गसूत्रपाठे " दसविहे ओरालिए असज्झाए पणत्ते” इत्यादिना प्रकटमेव शौचोपलम्भान् नचात्र भाक्शौचमितिध्येयं श्रीजैनमते द्रव्यभावयोर्द्वयोरपि यथावसरमुपदेशात् विधिना पूजाकरणे प्रसक्तस्य स्नानस्याप्यवश्यकत्व प्रतीतेः ॥ . मूढाचीर्णानगलजलनदीमध्यनिमजनादिना स्नानस्यैव प्रतिषेधात्, गङ्गायां खानमित्यत्र, गङ्गायां घोष इत्यादिवल्लक्षणया तट एव स्नानमुचित, तदन्यथा ब्रुडनमकराशनादेदोषस्याध्यक्षादिति नात्रबहूच्यतेऽनधिकारात् पाठशौचं पाठनिर्दोषत्वं वा तत् प्रभृतय विरुद्धो धर्मो ऐहिकामुभिकफल दायिन्यो धार्मिक्य इति धर्म शढे नात्र-लोकद्वया ग्राह्यः ॥ ६ ॥
एतदेव सामुदिकशास्त्रमूलभूतस्य कलौ तद्वयवहारकारणशास्त्रनिर्मातुः परमर्षेः संमत्याद्रढऽयति ॥
सर्वाङ्गे लक्षणप्रेक्षा व्याकुलानां नृणां मुदे । श्रीसमुद्रेण मुनिना तेन हस्तः प्रकाशितः ॥ ७॥
"Aho Shrutgyanam"