________________
णशास्त्रेऽपि तिथिचक्रादिविमर्शो वक्ष्यते । ननु अनिमित्तं गाइदिव्युपायं तलिक्ख भोमं च अंगसरवजणलखणच तिविहं मुणिकिक ॥ १ ॥ सुतं वित्ती तहवति अंच पावसुय मउणतीसविहंगंधव्वनढवत्थु आउंधणुवेय संजुत्तं ॥ २॥ इति वचनात् कथमत्र जैनर्षीणामाधिकार इति चेन्न, पापाशयवतां मिथ्यादृशां परिग्रहे पापश्रुतत्वं सम्यक्त्ववतां तद्गृहे सम्यक् श्रुतत्त्वादिति व्यक्तं नंदिसूत्रे ॥३॥
अथ प्रकृतस्यावसरमाहअङ्गे हस्तः प्रशस्तोऽयं शीर्षादपि विशिष्यते ।
साध्यन्ते पादशौचाद्या धार्मिक्ये येन सस्क्रियाः॥६॥ अङ्ग इति । सर्वस्मिन्नपि शरीरे मुख्यो हस्तः, शीर्ष वराङ्ग, ततोऽपि विशिष्यते, विशेष गुणैरधिकतां प्राप्नोति । स्वतः एव कर्मकर्तरि उक्तिः क्रियेन्द्रियाणां वाक्पाणिपादपायपस्थरूपाणां मध्ये मुख्यत्वात् ज्ञानेन्द्रियस्य स्पर्शनादेरपि मार्जनादिना तदुपकाराच्च, ननु ज्ञानं हि सर्वत्र प्रवर्तकं निवतकं च, तस्मादेवलोकेऽर्थसंसिद्धेः ज्ञानेन्द्रियाणि स्पर्शनादीनि कण्ठादुपयेव शेषकायस्य जडत्वात् , अतएव सामुद्रिकेप्युक्तं-मुखमई शरीरस्य सर्व वा मुखमुच्यते । ततोऽपि नासिका श्रेष्टा नासिकाया.स्तुलोचने ॥ १ ॥ यद्यपिहस्ते सर्वलक्षणस्थानादतिशयो वक्ष्यते तथापि नक्षोदक्षमो नेत्रादेरपि लक्षकत्वात्तदुक्तं-- ." यथा नेत्रे तथाशीलं यथा नाशा तथार्जवमिति” । अन्यथा हस्तं विहाय शेषसामुद्रिकशास्त्रं व्यर्थ स्यात् इति चेन, सर्वावयव स्यत्वेन हस्तान्नेत्रादेरपिशुभाशुभादिज्ञप्तेः नचैवं नेत्रादेहस्तादिसर्यावयवज्ञानं ॥ १ ॥ नच ज्ञानाङ्गत्वात्तन्मुख्यत्वं क्रियां विनाज्ञानस्य । प्रयोजकत्वात् , यदुक्तं--क्रियैव फलदापुंसां न ज्ञानं फलदं मतं । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ १॥ बालस्य ज्ञानेऽपि स्तन्यपानक्रिया प्रवृत्तेस्तृतिसिद्धेः केवलयापिक्रिययाभ्यासाद् ज्ञानोपलम्भाच्च । अतएव मिथ्या स्वरूपापिक्रियैव
"Aho Shrutgyanam"